देहान्ते विष्णुसायुज्यं लभते नात्र संशयः
सुप्तोत्थितं जगन्नाथमलङ्कृत्य निशागमे
हुत्वा तत्र समुद्दीप्ते रौप्य दीपिकया मुने
तत्रैवानुगतां लक्ष्मीं ब्रह्माणीं चण्डिकां तथा
मातॄः पितॄन्नगान्नागान्सर्वान्नीराजयेत्क्रमात्
नमो जयेति शब्दैश्च घण्टाशङ्खा दिनिःस्वनैः
गवां कोलाहले वृत्ते नीराजनमहोत्सवे
राजचिह्नानि सर्वाणि च्छत्रादीनि च नारद
पूजयित्वा यथान्यायं नीरज्य स्वयमादरात्
सिंहासने नवे कॢप्ते तिष्ठेत्सम्यगलङ्कृतः
शीर्षोपरि नरेद्रस्य तया नीराजयेच्छनैः
राज्ञा वित्तवतान्येन वर्षमारोग्यमिच्छता
नीराजनाभिधा विप्र तद्रोगा यान्ति संक्षयम्
मनोभवस्तथा प्राणो नरो यातश्च वीर्यवान्
विभुश्चापि प्रभुश्चैव साध्या द्वादश कीर्तिताः
ततो द्विजाग्र्यान्संभोज्य द्वादशात्र सुदक्षिणाः
एतस्यामेव विदितं द्वादशादित्यसंज्ञितम्
धातामित्रोर्ऽयमा पूषा शक्रोंऽशो वरुणो भगः
प्रतिमासं तु शुक्लायां द्वादश्यामर्च्य यत्नतः
हैमीः संपूज्य विधिना भोजयित्वा द्विजोत्तमान्
एव व्रतं नरः कृत्वा द्वादशादित्यसंज्ञकम्
जायते भुवि धर्मात्मा मानुष्ये रोगवर्जितः
तत्पुण्येन रवेन्भित्वा मण्डलं द्विजसत्तम
अत्रैवाखण्डसंज्ञं च व्रतमुक्त द्विजोत्तम
अभ्यर्च्य गन्धपुष्पाद्यैस्तदग्रे भोजयेद्द्विजान्
ततः समान्ते तां मूर्तिं समभ्यर्च्य विधानतः
शतजन्मसु यत्किञ्चिन्मयाखण्डव्रतं कृतम्
ततः संभोज्य विप्राग्र्यान्सखण्डाढ्यैस्तु पायसैः
इति कृत्वा व्रतं विप्र प्रीणयित्वा जनार्दनम्
पौषस्य कृष्णद्वादश्यां रूपव्रतमुदीरितम्