वासोभिर्द्विजदांपत्यं पूजयित्वा समर्पयेत्
यः कुर्याद्विधिनानेन मदनद्वादशीव्रतम्
अस्यामेव समुद्दिष्टं भर्तृद्वादशिकाव्रतम्
संस्थाप्य मण्डपं पुष्पैस्तदुपर्प्युपकल्पयेत्
नृत्यवादित्रगीताद्यैस्ततः प्रातः परे ऽहनि
द्विजान्संभोज्य विसृजद्दक्षिणाभिः प्रतोषितान्
सप्तजन्मसु भुङ्क्ते च भोगान् लोकद्वयेप्सितान्
संपूज्य माधवं भक्त्या गन्धाद्यैरुपचारकैः
विप्राय दद्याद्विधिवन्माधवः प्रीयतामिति
गन्धाद्यैर्मधुरान्नाढ्यं करक विनिवेदयेत्
व्रतेनानेन संतुष्टो देवदेवस्त्रिविक्रमः
आषाढशुक्लद्वादश्यां द्विजान्द्वादश भोजयेत्
तभ्यो वासांसि दण्डांश्च ब्रह्मसूत्राणि मुद्रिकाः
द्वादश्यां तु नभःशुक्ले श्रीधरं पूजयेद्व्रती
संभोज्य दक्षिणा रौप्यां दत्वा नत्वा विसर्ज्जयेत्
द्वादश्यां नभस्यशुक्ले व्रती संपूज्य वामनम्
सौवर्णी दक्षिणां दत्वा विष्णुप्रीतिकरो भवेत्
गन्धाद्यैरुपचारैस्तु तदग्रे भोजयेद्द्विजान्
व्रतेनैतेन संतुष्टः पद्मनाभो द्विजोत्तम
कार्तिके कृष्णपक्षे तु गोवत्सद्वादशीव्रतम्
चन्दनाद्यैस्तथा पुष्पमालाभिः प्रार्च्य ताम्रके
प्रदद्यात्पादमूले ऽस्या मन्त्रेणानेन नारद
सर्वदेवमये देवि सर्वदेवैरलङ्कृते
ततो माषादिसंसिद्धान्वटकांश्च निवेदयेत्
सुरभि त्वं जगन्माता नित्यं विष्णुपदे स्थिता
सर्वदेवमये देवि सर्वदेवैरलङ्कृते
तद्दिने तैलपक्वं च स्थालीपक्वं द्विजोत्तम
द्वादश्यामूर्जशुक्लायां देवं दामोदरं द्विज
तदग्रे भोजयेद्विप्रान्पक्वान्नेनार्कसंख्यकान्
सपूगमोदकस्वर्णांस्तेभ्यः प्रीत्या समर्पयेत्