भुक्त्वेह वाञ्छितान्भोगानन्ते विष्णुपदं लभेत्
प्रातर्हरि दिने ऽभ्यर्च्चेच्छ्रीपतिं पुरुषं द्विज
स्वयं भुञ्जीत तच्छेषं प्रयतो निजबान्धवैः
स भुक्त्वेह वरान्भोगानन्ते विष्णोः पदं व्रजेत्
द्वादश्यां प्रातरभ्यर्च्य योगीशं गन्धपूर्वकैः
विसृज्य बान्धवैः सार्द्धं स्वयमश्नीत वाग्यतः
देहान्ते वैष्णवं लोकं याति देवैः सुसत्कृतः
उपोष्यामलकीं भक्त्या द्वादश्यां प्रातरर्चयेत्
भोजयित्वा वरान्नेन दद्यात्तेभ्यस्तु दक्षिणाम्
सितैकादश्यां तपस्ये व्रजेद्विष्णोः परं पदम्
उपाष्य द्वादश्यांप्रातर्गोविन्दं पूजयेत्तथा
दत्वा तेभ्यो विसृज्याथ स्वयं भुञ्जीत बान्धवैः
स याति वैष्णवं लोकं विमानेन तु भास्वता
मोक्षदं कीर्तितं विप्र नास्त्यस्मिन्संशयः क्वचित्
सर्वव्रतोत्तमं विप्र ततो ज्ञेयं महाफलम्
आद्यन्तयोरेकमेकं मध्यमे द्वयमेव हि
कांस्यं मांसं मसूरान्नं चणकान्कोद्रवांस्तथा
दशम्यां दश वस्तूनि वर्जयेद्वैष्णवऋ सदा
परापवादं पैशुन्यं स्तेयं हिंसां तथा रतिम्
कांस्यं मांसं सुरां क्षौद्रं तैलं विण्म्लेच्छभाषणम्
अस्पृश्यस्पर्शमाशूरे द्वादश्यां द्वादश त्यजेत्
शक्तो ऽशक्तुस्तु मतिमानेकभुक्तं न नक्तकम्
अयाचितं वापि चरेन्न त्यजेद्व्रतमीदृशम्
यानि कृत्वा नरो लोके विष्णोः प्रियतरो भवेत्
स्थापयेदव्रणं कुंभं सिततन्दुलपूरितम्
सितवस्त्रयुगच्छन्नं सितचन्दनचर्च्चितम्
ताम्रपात्रं गुडोपेतं तस्योपरि निवेशयेत्
गन्धाद्यैरुपचारैस्तु सोपवासो परे ऽहनि
ब्रह्मणान्भोजयेच्चैव तेभ्यो दद्याच्च दक्षिणाम्
शय्यां तु दद्याद्गुरवे सर्वोपस्करसंयुताम्