व्योमयानेन सांनिध्यं लभते च रमापतेः
केशवं बोधयेद्रात्रौ सुप्तं गीतादिमङ्गलैः
द्राक्षेक्षुदाडिमैश्चान्यै रंभाशृङ्गाटकादिभिः
स्नात्वा नित्यक्रियां कृत्वा गदादामोदरं यजेत्
संभोज्य विप्रान्विसृजेद्दक्षिणाभिः प्रतोषितान्
एवं यः कुरुते भक्त्या बोधिनीव्रतमादृतः
मार्गस्य कृष्णैकादश्यामुत्पन्नां समुपोष्य वै
ततः संभोज्य विप्राग्र्यान्दत्वा तेभ्यश्च दक्षिणाम्
एवं यो भक्तिभावेन उत्पन्नाव्रतमाचरेत्
मार्गस्य शुक्लैकादश्यां मोक्षाख्यां समुपोष्य वै
सर्वैरेवोपचारैस्तु विप्रान्संभोजयेद्द्विजः
एवं कृत्वा व्रतं विप्र भुक्त्वा भोगानिहेप्सितान्
द्वादश्यामच्युतं प्रार्च्य सर्वैरेवोपचारकैः
एवं कृत्वा व्रतं विप्र सफलाया विधानतः
पौषस्य शुक्लैकादश्यां पुत्रदां समुपोष्य वै
ततः संभोज्य विप्राग्र्यान्दत्वा तेभ्यस्तु दक्षिणाम्
एवं कृतव्रतो विप्र भुक्वा भोगानिहेप्सितान्
माघम्य कृष्णैकादश्यां षट्तिलां समुपोष्य वै
तिलैरेव द्विजश्रेष्ठ द्वादश्यां प्रातरेव हि
द्विजान्संभोज्य विसृजेद्दत्वा तेभ्यश्च दक्षिणाम्
भुक्त्वेह वाञ्छितान्भोगानन्ते विष्णुपदं लभेत्
प्रातर्हरि दिने ऽभ्यर्च्चेच्छ्रीपतिं पुरुषं द्विज
स्वयं भुञ्जीत तच्छेषं प्रयतो निजबान्धवैः
स भुक्त्वेह वरान्भोगानन्ते विष्णोः पदं व्रजेत्
द्वादश्यां प्रातरभ्यर्च्य योगीशं गन्धपूर्वकैः
विसृज्य बान्धवैः सार्द्धं स्वयमश्नीत वाग्यतः
देहान्ते वैष्णवं लोकं याति देवैः सुसत्कृतः
उपोष्यामलकीं भक्त्या द्वादश्यां प्रातरर्चयेत्
भोजयित्वा वरान्नेन दद्यात्तेभ्यस्तु दक्षिणाम्
सितैकादश्यां तपस्ये व्रजेद्विष्णोः परं पदम्