शयनादुत्थिता नारी शुचिः स्यादशुचिः पुमान्
दण्ड्या द्वादशकं नारी वर्षं त्याज्या धनं विना
पिता हि पतितः कामं न तु माता कदाचन
मृते मेध्येन लेत्पव्यो जीवतो द्विशतं दमः
प्रायश्चित्तं ततः कुर्युर्यथाशास्त्रप्रचोदितम्
विषप्रपतनध्वस्ताः शस्त्रघातहताश्च ये
चान्द्रायणेन शुद्ध्यंन्ति तत्पकृच्छ्रद्वयेन वा
चान्द्रायणाभ्यां शुद्ध्येत दत्त्वा धेनुं तथा वृषम्
स्पृष्टः स्त्रात्वा शुचिः सद्यो दिवा संध्यासु रात्रिषु
गोमूत्रयावकाहारो मासार्द्धेन विशुद्ध्यति
पाशं छित्वा तथा तस्य कृच्छ्रमेकं चरेद्दिजः
कृच्छ्रार्ध्दमाचरेज्ज्ञानादज्ञानादैन्दवद्वयम्
अगम्यागमने विप्रो मद्यगो मांसभक्षणे
महापातककर्त्तारश्चत्वारो ऽथ विशेषतः
रहस्यकरणो ऽप्येवं मासमभ्यस्य पुरुषः
रजकश्चर्मकारश्च नटो बुरुड एव च
भुक्त्वा चैषां स्त्रियो गत्वा पीत्वा यःप्रतिगृह्यते
मातरं गुरुपत्नीं च दुहितृभगिनीस्नुषाः
राज्ञीं प्रव्रजितां धात्रीं तथावर्णोत्तमामपि
अमूषु पितृगोत्रासु मातृगोत्रगतासु च
वेश्याभिगमने पापं व्यपोहन्ति द्विजा स्तथा
गुरुतल्पगतो कुर्यार्द्बाह्मणो विधिवद्रूतम्
दण्डादूर्ध्वं प्रहारेण यस्तु गां विनिपातयेत्
अङ्गुष्ठमात्रस्थूलस्तु बाहुमात्रघप्रमाणकः
गवां निपातने चैव गर्भो ऽपि संभवेद्यदि
बन्धने रोधने चैव पोषणे वा गवां रुजाम्
मूर्च्छितः पतितो वापि दण्डेनाभिहतस्ततः
ग्रासं वा यदि गृह्णीयात्तोयं वापि पिबेद्यदि
कष्टलोष्टाश्मभिर्गावः शस्त्रैर्वा निहता यदि
काष्टे सान्तपनं प्रोक्तं प्राजापत्यं तु लोष्टके