उपचारैः षोडश भिस्ततः संभोज्य वै द्विजान्
एवं यः कुरुते विप्रकामिकाव्रतमुत्तमम्
एकादश्यां नभःशुक्ले पवित्रां समुपोष्य वै
याति विष्णोः पदं साक्षात्सर्वदेवनमस्कृतः
अर्चेदुर्पेन्द्रं द्वादश्यामुपचारैः पृथग्विधैः
एवं कृतव्रतो विप्रभक्त्याजायाः समाहितः
नभस्यशुक्लैकादश्यां पद्माख्यां समुपोष्य वै
पूर्वं संस्थापितायास्तु प्रतिमाया द्विजोत्तम
कृतांबुस्पर्शनां तत्र संप्रपूज्य विधानतः
ततः प्रभाप्ते द्वादश्यां गन्धाद्यैरर्च्य वामनम्
एवं यः कुरुते विप्र पद्माव्रतमनुत्तमम्
इषस्य कृष्णैका दश्यामिन्दिरां समुपोष्य वै
विष्णोः प्रीतिकरं विप्र ततः प्रातर्हरेर्दिने
विसृज्य दक्षिणां दत्वा तांस्ततो ऽश्नीत च स्वयम्
पितॄणां कोटिमुद्धृत्य यात्यन्ते वैष्णवं गृहम्
उपोष्य विधिवद्विष्णोर्दिने विष्णुं समर्चयेत्
भक्त्या प्रणम्य विसृजेदश्नीयाच्च स्वयं ततः
स भुक्त्वेह वरान्भोगान्याति विष्णोः सलोकताम्
रमामुपोष्य विधिवद्द्वादश्यां प्रातरर्चयेत्
भोजयेच्च ततो विप्रान्विसृजेल्लब्धदक्षिणान्
व्योमयानेन सांनिध्यं लभते च रमापतेः
केशवं बोधयेद्रात्रौ सुप्तं गीतादिमङ्गलैः
द्राक्षेक्षुदाडिमैश्चान्यै रंभाशृङ्गाटकादिभिः
स्नात्वा नित्यक्रियां कृत्वा गदादामोदरं यजेत्
संभोज्य विप्रान्विसृजेद्दक्षिणाभिः प्रतोषितान्
एवं यः कुरुते भक्त्या बोधिनीव्रतमादृतः
मार्गस्य कृष्णैकादश्यामुत्पन्नां समुपोष्य वै
ततः संभोज्य विप्राग्र्यान्दत्वा तेभ्यश्च दक्षिणाम्
एवं यो भक्तिभावेन उत्पन्नाव्रतमाचरेत्
मार्गस्य शुक्लैकादश्यां मोक्षाख्यां समुपोष्य वै