उपोष्य तस्मिन् दिवसे विधिवन्मण्डपे शुभे
लसच्चतुर्भुजामग्र्यां काञ्चनीं वाथ राजतीम्
ततः पञ्चामृतैः स्नाप्य मन्त्रैः शुद्धजलेन च
नीराजनान्तान्पाद्यादींस्ततः संप्रार्थयेद्धरिम्
विबुद्धे त्वयि बुद्धं च जगत्सर्वं चराचरम्
नियमांस्तु यथाशक्ति गृह्णीयाद्भक्तिमान्नरः
उपचारैः षोडशभिस्ततः संभोज्य वाडवान्
ततः प्रभृति विप्रेन्द्र गन्धाद्यैः प्रत्यहं यजेत्
भुक्तिमुक्तियुतो मर्त्यो भवेद्विष्णोः प्रसादतः
कामिकां समुपोष्यैव नियमेन नरोत्तम
उपचारैः षोडश भिस्ततः संभोज्य वै द्विजान्
एवं यः कुरुते विप्रकामिकाव्रतमुत्तमम्
एकादश्यां नभःशुक्ले पवित्रां समुपोष्य वै
याति विष्णोः पदं साक्षात्सर्वदेवनमस्कृतः
अर्चेदुर्पेन्द्रं द्वादश्यामुपचारैः पृथग्विधैः
एवं कृतव्रतो विप्रभक्त्याजायाः समाहितः
नभस्यशुक्लैकादश्यां पद्माख्यां समुपोष्य वै
पूर्वं संस्थापितायास्तु प्रतिमाया द्विजोत्तम
कृतांबुस्पर्शनां तत्र संप्रपूज्य विधानतः
ततः प्रभाप्ते द्वादश्यां गन्धाद्यैरर्च्य वामनम्
एवं यः कुरुते विप्र पद्माव्रतमनुत्तमम्
इषस्य कृष्णैका दश्यामिन्दिरां समुपोष्य वै
विष्णोः प्रीतिकरं विप्र ततः प्रातर्हरेर्दिने
विसृज्य दक्षिणां दत्वा तांस्ततो ऽश्नीत च स्वयम्
पितॄणां कोटिमुद्धृत्य यात्यन्ते वैष्णवं गृहम्
उपोष्य विधिवद्विष्णोर्दिने विष्णुं समर्चयेत्
भक्त्या प्रणम्य विसृजेदश्नीयाच्च स्वयं ततः
स भुक्त्वेह वरान्भोगान्याति विष्णोः सलोकताम्
रमामुपोष्य विधिवद्द्वादश्यां प्रातरर्चयेत्
भोजयेच्च ततो विप्रान्विसृजेल्लब्धदक्षिणान्