स्वर्णान्नकन्याधेनूनां दानमत्र प्रशस्यते
सर्वपाप विनिर्मुक्तो वैष्णवं लभते पद्वम्
स्नात्वा परे ऽह्नि संपूज्य गन्धाद्यैः पुरुषोत्तमम्
जेष्ठस्य कृष्णकादश्यां समुपोष्य परां नृप
ततो द्विजाग्र्यान्संभोज्य दत्वा तेभ्यश्च दक्षिणाम्
ज्येष्ठस्य शुक्लैकादश्यां निर्जलां समुपोष्य तु
प्रभाते कृतनित्यस्तु द्वादश्यामुपचारकैः
चतुर्विंशैकादशीनां फलं यत्तत्समाप्नुयात्
नारायणं समभ्यर्च्य द्वादश्यां कृतनित्यकः
सर्वदानफलं प्राप्य मोदते विष्णुमन्दिरे
उपोष्य तस्मिन् दिवसे विधिवन्मण्डपे शुभे
लसच्चतुर्भुजामग्र्यां काञ्चनीं वाथ राजतीम्
ततः पञ्चामृतैः स्नाप्य मन्त्रैः शुद्धजलेन च
नीराजनान्तान्पाद्यादींस्ततः संप्रार्थयेद्धरिम्
विबुद्धे त्वयि बुद्धं च जगत्सर्वं चराचरम्
नियमांस्तु यथाशक्ति गृह्णीयाद्भक्तिमान्नरः
उपचारैः षोडशभिस्ततः संभोज्य वाडवान्
ततः प्रभृति विप्रेन्द्र गन्धाद्यैः प्रत्यहं यजेत्
भुक्तिमुक्तियुतो मर्त्यो भवेद्विष्णोः प्रसादतः
कामिकां समुपोष्यैव नियमेन नरोत्तम
उपचारैः षोडश भिस्ततः संभोज्य वै द्विजान्
एवं यः कुरुते विप्रकामिकाव्रतमुत्तमम्
एकादश्यां नभःशुक्ले पवित्रां समुपोष्य वै
याति विष्णोः पदं साक्षात्सर्वदेवनमस्कृतः
अर्चेदुर्पेन्द्रं द्वादश्यामुपचारैः पृथग्विधैः
एवं कृतव्रतो विप्रभक्त्याजायाः समाहितः
नभस्यशुक्लैकादश्यां पद्माख्यां समुपोष्य वै
पूर्वं संस्थापितायास्तु प्रतिमाया द्विजोत्तम
कृतांबुस्पर्शनां तत्र संप्रपूज्य विधानतः
ततः प्रभाप्ते द्वादश्यां गन्धाद्यैरर्च्य वामनम्