गीतैः सुमङ्गलप्रायैः स्तवपाठैर्जपादिभिः
द्वादशाभ्यर्च्य संभोज्य शक्तितो दक्षिणां ददेत्
युगं स्वर्गसुखं भुक्त्वा सार्वभौमो नृपो भवेत्
गन्धाद्यैरर्चयेद्विप्रान् दश तच्चरणोदकम्
एतत्कृत्वा व्रतं विप्र ह्यारोग्यं प्राप्य भूतले
पौषे दशम्यां शुक्लायां विश्वेदेवान् समर्चयेत्
विप्रं रामं च दशधा केशवस्तान्समास्थितः
गन्धैर्धूपैस्तथा दीपैर्नैवेद्यैश्चापि नारद
दक्षिणां तां द्विजाग्र्येभ्यो गुरवे वा समर्पयेत्
लोकद्वयस्य विप्रर्षे नात्र कार्या विचारणा
देवांनगिरसो नाम दश सम्यक्समर्चयेत्
आत्मा ह्यायुर्मनो दक्षो मदः प्राणस्तथैव च
दश विप्रान्भोजयित्वा मधुरान्नेन नारद
अन्त्यशुक्लदशम्यां तु चतुर्दशं यमान्यजेत्
वैवस्वतश्च कालश्च सर्वभूतक्षयस्तथा
वृकोदरश्चचित्रश्च चित्रगुप्तश्चतुर्दश
तिलांबुमिश्राञ्जलिभिर्दर्भैः प्रत्येकशस्त्रिभिः
रक्तचन्दनसंमिश्रतिलाक्षतयवांबुभिः
गृहाणार्घ्यं मया दत्तं भक्त्या मामनुकंपय
रौप्यां सुदक्षिणां दत्वा विसृज्याश्नीत च स्वयम्
भुक्त्वा भोगांश्च पुत्रार्थानैहिकान्देवदुर्लभान्
विमानवरमास्थाय देहान्ते विष्णुलोकभाक्
नानापुष्पैर्मुने कृत्वा विचित्रं मण्डपं शुभम्
संपूज्य विधिवद्विष्णुं श्रद्धया सुसमाहितः
स्तोत्रपाठैर्बहुविधैर्गीतवाद्यैर्मनोहरैः
रात्रौ जागरणं कृत्वा याति विष्णोः परं पदम्
कृत्वा च नियमान्सर्वान्वक्ष्यमाणान्दिनत्रये
उपचारैः षोडशभिस्ततः संभोज्य बान्धवान्
इयं तु कामदा नाम सर्वपातकनाशिनी
वैशाखकृष्णैकादश्यां समुपोष्य विधानतः