तेजोराजो ऽथ वह्निस्तं नाशयत्वखिलेष्टदः
तं यमः प्रेतराजो वै नाशयत्वखिलेष्टदः
रक्षोराजो नैरृतिस्तं नाशयत्वखिलेष्टदः
यादः पतिस्तं वरुणो नाशयत्वखिलेष्टदः
वायुस्तं मरुतां राजो नाशयत्वखिलेष्टदः
सोमस्तमृक्षयक्षेशो नाशयत्वखिलेष्टदः
ईशानो भूतनाथस्तं नाशयत्वखिलेष्टदः
ब्रह्मा प्रजापतीशस्तं नाशयत्वखिलेष्टदः
अनन्तो नागराजस्तं नाशयत्वखिलेष्टदः
क्षेत्रपालाय तद्बाह्ये क्षिपेद्बलिमतन्द्रितः
गीतैः सुमङ्गलप्रायैः स्तवपाठैर्जपादिभिः
द्वादशाभ्यर्च्य संभोज्य शक्तितो दक्षिणां ददेत्
युगं स्वर्गसुखं भुक्त्वा सार्वभौमो नृपो भवेत्
गन्धाद्यैरर्चयेद्विप्रान् दश तच्चरणोदकम्
एतत्कृत्वा व्रतं विप्र ह्यारोग्यं प्राप्य भूतले
पौषे दशम्यां शुक्लायां विश्वेदेवान् समर्चयेत्
विप्रं रामं च दशधा केशवस्तान्समास्थितः
गन्धैर्धूपैस्तथा दीपैर्नैवेद्यैश्चापि नारद
दक्षिणां तां द्विजाग्र्येभ्यो गुरवे वा समर्पयेत्
लोकद्वयस्य विप्रर्षे नात्र कार्या विचारणा
देवांनगिरसो नाम दश सम्यक्समर्चयेत्
आत्मा ह्यायुर्मनो दक्षो मदः प्राणस्तथैव च
दश विप्रान्भोजयित्वा मधुरान्नेन नारद
अन्त्यशुक्लदशम्यां तु चतुर्दशं यमान्यजेत्
वैवस्वतश्च कालश्च सर्वभूतक्षयस्तथा
वृकोदरश्चचित्रश्च चित्रगुप्तश्चतुर्दश
तिलांबुमिश्राञ्जलिभिर्दर्भैः प्रत्येकशस्त्रिभिः
रक्तचन्दनसंमिश्रतिलाक्षतयवांबुभिः
गृहाणार्घ्यं मया दत्तं भक्त्या मामनुकंपय
रौप्यां सुदक्षिणां दत्वा विसृज्याश्नीत च स्वयम्