गन्धाद्यैरुपचारैश्च श्वेतपुष्पैः सुगन्धिभिः
लभते वैष्णवं लोकं नात्र कार्या विचारणा
समायाता धरां स्वर्गात्तस्मात्सा पुण्यदा स्मृता
गरानन्दव्यतीपाताः कन्येन्दुवृषभास्कराः
हरते दश पापानि तस्माद्दशहरः स्मृतः
विधिना जाह्नवीतोये स याति हरिमन्दिरम्
तस्यां स्नानं जपो दानं होमो वा स्वर्गतिप्रदाः
अस्यां शिवार्चनं शस्तं गन्धाद्यै रुपचारकैः
हेम्नो दान च धेन्वादेः सर्वपापप्रणाशनम्
व्रतं दशावताराख्यं तत्र स्नानं जलाशये
ततो दशावताराणि समभ्यर्चेत्स माहितः
रामं रामं च कृष्णं च बौद्धं कल्किनमेव च
दशभ्यो विप्रवर्येभ्यो दद्यात्सत्कृत्य नारद
विसृज्य पश्चाद्भुञ्जीत स्वयं स्वेष्टैः समाहितः
विमानेन व्रजेदन्ते विष्णुलोकं सनातनम्
चतुर्गोमयपिण्डानि प्रातर्न्यस्य गृहाङ्गणे
तथा भरतशत्रुघ्नौ पूजयेच्चतुरो ऽपि हि
किन्नं धान्यं सरौप्यं तु धृत्वा धौतांशुकावृतम्
संपूज्यं गन्धपुष्पाद्यैर्नैवेद्यैश्च विधानतः
एवं कृत्वा विधानं तु नरो वर्षं सुरवान्वितः
अथापाराह्नसमये नवम्यां संनिमन्त्रिताम्
गृहीत्वा स्वगृहं प्राप्य गीतवादित्रनिःस्वनैः
निर्गत्य पूर्वद्वारेण ग्रामाद्ब्रहिरनाकुलः
मनसा कल्पितां वापि स्वर्णं पुंरवंशरेण वै
एवं कृतविधिर्वापि गच्छेद्वा शत्रुनिग्रहे
धनं जयं सुतान् गाश्च गजाश्वं वाप्यजाविकम्
दशम्यां कार्तिके शुक्ले सार्वभौमव्रतं चरेत्
दशदिक्षु बलिं दद्याद् गृहद्वापि पुराद्ब्रहिः
मन्त्रैरेभिर्द्विजश्रेष्ठ गणेशादिकृतार्चनः
तमिन्द्रो देवरा जो ऽद्य नाशयत्वखिलेष्टदः