ततो निशायां प्राग्यामे खड्गं धनुरिषून्गदाम्
छत्रं ध्वजं गजं चाश्व गोवृषं पुस्तकं तुलाम्
संपूज्य महिषं तत्र भद्रकाल्यै समालभेत्
द्विजेभ्यो दक्षिणां दत्वा व्रतं तत्र समापयेत्
इह भुक्त्वा वरान्भोगानन्ते स्वर्गतिमाप्नुयात्
तस्यामश्वत्थमूले वै तर्प्पणं सम्यगाचरेत्
स्वशाखोक्तैस्तथा मन्त्रैः सूर्यायार्घ्यं ततोर्ऽपयेत्
स्वयं भुक्त्वा च विहरेद्द्विजेभ्यो दत्तदक्षिणः
होमं च सर्वमक्षय्यं भवेदिति विधेर्वयः
तस्यामुपोषितो यस्तु जगदंबां प्रपूजयेत्
पौषे शुक्लनवम्यां तु महामायां प्रपूजयेत्
माघमासे तु वा शुक्ला नवमी लोकपूजिता
तस्यां स्नानं तथा दानं जपो होम उपोषणम्
फआल्गुनामलपक्षस्य नवमी या द्विजोत्तम
सोपवासोर्ऽचयेत्तत्र यस्त्वानन्दां द्विजोत्तम
स लभेद्वाञ्छितान्कामान्सत्यं सत्यं मयोदितम्
यानि कृत्वा नरो भक्त्या धर्मराजप्रियो भवेत्
तत्कालसंभवैः पुष्पैः फलैर्गन्धादिभिस्तथा
चतुर्द्दशततस्तेभ्यः शक्त्या दद्याच्च दक्षिणाम्
स धर्मस्याज्ञयागच्छेद्देवैः साधर्म्यमच्युतः
गन्धाद्यैरुपचारैश्च श्वेतपुष्पैः सुगन्धिभिः
लभते वैष्णवं लोकं नात्र कार्या विचारणा
समायाता धरां स्वर्गात्तस्मात्सा पुण्यदा स्मृता
गरानन्दव्यतीपाताः कन्येन्दुवृषभास्कराः
हरते दश पापानि तस्माद्दशहरः स्मृतः
विधिना जाह्नवीतोये स याति हरिमन्दिरम्
तस्यां स्नानं जपो दानं होमो वा स्वर्गतिप्रदाः
अस्यां शिवार्चनं शस्तं गन्धाद्यै रुपचारकैः
हेम्नो दान च धेन्वादेः सर्वपापप्रणाशनम्
व्रतं दशावताराख्यं तत्र स्नानं जलाशये