तत्सर्वं विलयं याति कालभैरवदर्शनात्
पितॄणां तृप्तिदं वर्षं कुलसन्ततिवर्द्धनम्
भुक्तिमुक्तिमवाप्नोति भक्तिमेकां समाचरन्
भक्तितो वैरिवृन्दघ्नीं सर्वकामप्रदायिनीम्
संततिं त्वव्यवच्छिन्नामिच्छंश्चाप्यपराजयम्
तत्र व्रतपरो विप्र सर्वकामसमृद्धये
गन्धाद्यैः सम्यगभ्यर्च्य सर्वसिद्धीश्वरो भवेत्
पूजयेत्सर्ववपक्कानैः सप्तम्यां विधिवत्कृतैः
शीतले त्वं जगद्वात्री शीतलायै नमोनमः
मार्जनी कलशोपेतां विस्फोटकविनाशिनीम्
तेषां तु शीतला देवी स्याद्विस्फोटकशान्तिदा
तस्य वर्षं भवेच्छान्तिः शीतलायाः प्रसादतः
शिवां वापिशिवं प्रार्च्यलभते वाञ्छितं फलम्
यानि कृत्वा नरा लोके लभन्ते वाञ्छितं फलम्
तत्रोपवासं विधिवच्छक्तो भक्तः समाचरेत्
विप्रान्संभोज्य मिष्टान्नै रामप्रीति सुमाचरेत्
एव यः कुरुते भक्त्या श्रीरामनवमीव्रतम्
उक्तं मातृव्रतं चात्र भैरवेण समन्विताः
अत्रैव भद्रकालो तु योगिनीनां महाबला
तस्मात्तां पूजयेच्चात्र सोपवासो जितेन्द्रियः
विधिना स विमानेन देवतैः सह मोदते
उमां संपूज्य विधिवत्कुमारीर्भोजयेद्द्विजान्
उमाव्रतमिदं विप्र यः कुर्याद्विधिवन्नरः
आषाढे मासि विप्रेन्द्र यः कुर्यात्पक्षयोर्द्विज
स भवेद्वै वलोके तु भोगभारग्देवयानगः
पक्षयोरुपवासं वा कौमारीं चण्डिकां यजेत्
नैवेद्यैर्विविधैश्चैव कुमारीभोजनैस्तथा
स विमानेन गच्छेद्वै देवीलोकं सनातनम्
तस्यां यः पूजयेद्दुर्गां विधिवच्चोपचारकैः
आश्विने शुक्लनवमी महापूर्वा प्रकीर्तिता