उपवासं चैकभक्तं महाष्टम्यां विधाय तु
ऊर्ज्जे कृष्णादिके ऽष्टम्यां करकाख्यं व्रतं स्मृतम्
चन्द्रोदयेर्ऽघदानं च विधेयं व्रतिभिः सदा
गोपाष्टमीति संप्रोक्ता कार्तिके धवले दले
गवानुगमनं दानं वाञ्छन्सर्वाश्च संपदः
अनघां चानघां तत्र बहुपुत्रसमन्वितम्
पूजयेद्गन्धपुष्पाद्यैरुपचारैः पृथग्विधैः
व्रतमेतन्नरः कृत्वा नारी वा विधिपूर्वकम्
पुत्रं सल्लक्षणोपेतं लभते नात्र संशयः
उपोष्य जागरं कृत्वा महापापैः प्रमुच्यते
तत्सर्वं विलयं याति कालभैरवदर्शनात्
पितॄणां तृप्तिदं वर्षं कुलसन्ततिवर्द्धनम्
भुक्तिमुक्तिमवाप्नोति भक्तिमेकां समाचरन्
भक्तितो वैरिवृन्दघ्नीं सर्वकामप्रदायिनीम्
संततिं त्वव्यवच्छिन्नामिच्छंश्चाप्यपराजयम्
तत्र व्रतपरो विप्र सर्वकामसमृद्धये
गन्धाद्यैः सम्यगभ्यर्च्य सर्वसिद्धीश्वरो भवेत्
पूजयेत्सर्ववपक्कानैः सप्तम्यां विधिवत्कृतैः
शीतले त्वं जगद्वात्री शीतलायै नमोनमः
मार्जनी कलशोपेतां विस्फोटकविनाशिनीम्
तेषां तु शीतला देवी स्याद्विस्फोटकशान्तिदा
तस्य वर्षं भवेच्छान्तिः शीतलायाः प्रसादतः
शिवां वापिशिवं प्रार्च्यलभते वाञ्छितं फलम्
यानि कृत्वा नरा लोके लभन्ते वाञ्छितं फलम्
तत्रोपवासं विधिवच्छक्तो भक्तः समाचरेत्
विप्रान्संभोज्य मिष्टान्नै रामप्रीति सुमाचरेत्
एव यः कुरुते भक्त्या श्रीरामनवमीव्रतम्
उक्तं मातृव्रतं चात्र भैरवेण समन्विताः
अत्रैव भद्रकालो तु योगिनीनां महाबला
तस्मात्तां पूजयेच्चात्र सोपवासो जितेन्द्रियः