यावत्कृष्णाष्टमी तत्र चरेदुद्यापनं सुधीः
कलशं सुप्रतिष्ठाप्य दीपमुद्द्योतयेत्ततः
चतस्रः प्रतिमाः कृत्वा सौवर्णीस्तत्स्वरूपिणीः
उपचारैः षोडशभिः पूजयित्वा विधानतः
ततो निशीथे संप्राप्ते ऽभ्युदिते ऽमृतदीधितौ
चन्द्रमण्डलसंस्थायै महालक्ष्यै प्रदापयेत्
पीयूषधाम रोहिण्याः सहितार्ऽघ्यं गृहाण मे
विष्णुवक्षस्थलस्थे मे सर्वकामप्रदा भव
रेणुके त्राहि मां देवि राममातः शिवं कुरु
सम्यक्संपूज्य ताः सम्यग्गन्धयावककज्जलैः
तदलाभे घृतैर्विप्र गृहेभ्यः समिधस्तिलान्
चन्दनं तालपत्रं च पुष्पमालां तथाक्षतान्
भक्ष्याणि च नवे शूर्पे प्रतिद्रव्यं तु षोडश
क्षीरोदार्णवसंभूता लक्ष्मीश्चन्द्रसहोदरा
चेतस्रः प्रतिमास्तास्तु श्रोत्रियेभ्यः समर्पयेत्
मिष्टान्नेनाशयित्वा तु विसृजेत्ताः सदक्षिणाः
एतद्व्रतं महालक्ष्म्याः कृत्वा विप्र विधानतः
एषाषोकाष्टमी चोक्ता यस्यां पूर्णं रमाव्रतम्
कृत्वाशोकव्रतं नारी ह्यशोका शोकजन्मनि
आश्विने शुक्लपक्षे तु प्रोक्ता विप्र महाष्टमी
उपवासं चैकभक्तं महाष्टम्यां विधाय तु
ऊर्ज्जे कृष्णादिके ऽष्टम्यां करकाख्यं व्रतं स्मृतम्
चन्द्रोदयेर्ऽघदानं च विधेयं व्रतिभिः सदा
गोपाष्टमीति संप्रोक्ता कार्तिके धवले दले
गवानुगमनं दानं वाञ्छन्सर्वाश्च संपदः
अनघां चानघां तत्र बहुपुत्रसमन्वितम्
पूजयेद्गन्धपुष्पाद्यैरुपचारैः पृथग्विधैः
व्रतमेतन्नरः कृत्वा नारी वा विधिपूर्वकम्
पुत्रं सल्लक्षणोपेतं लभते नात्र संशयः
उपोष्य जागरं कृत्वा महापापैः प्रमुच्यते