दत्वा च दक्षिणां तेभ्यो विसृजेत्तुष्टमानसः
गुरवे दक्षिणां दत्वा विसृज्याश्रीत च स्वयम्
साक्षाद्गोकमाप्नोति विमानवरमास्थितः
कृतेन येन लभ्येत कोट्यैकादशकं फलम्
पूर्ववद्राधिकां हैमीं कलशस्थां प्रपूजयेत्
शक्तो भक्तश्चोपवासं परे ऽह्नि विधिना ततः
कृत्वा स्वयं च भुञ्जीतं व्रतमेवं समापयेत्
रहस्यं गोष्ठजं लब्ध्वा राधापरिकरे वसेत्
शुचौ देशे प्रजातायां द्वर्वायां द्विजसत्तम
नैवेद्यैरर्चयेद्भक्त्या दध्यक्षतफलादिभिः
त्वं दूर्वे ऽमृतजन्मासि सुरासुरनमस्कृते
यथा शाखा प्रशाखाभिर्विस्तृतासि महीतले
ततः प्रदक्षिणीकृत्य विप्रान्संभोज्य तत्र वै
फलानि च प्रशस्तानि मिष्टानि सुरभीणि च
चतुर्णामपि वर्णानां स्त्रीजनानां विशेषतः
जन्मानि त्रीणि वैधव्यं लभते सा न संशयः
ज्येष्ठा नाम्नी तु सा ज्ञेया पूजिता पापनाशिनी
महालक्ष्म्याः समुद्दिष्टं सर्वसंपद्विवर्धनम्
तदविघ्नेन मे यातु समाप्तिं त्वत्प्रसादतः
षोडशग्रन्थिसहितं गुणैः षोडशभिर्युतम्
यावत्कृष्णाष्टमी तत्र चरेदुद्यापनं सुधीः
कलशं सुप्रतिष्ठाप्य दीपमुद्द्योतयेत्ततः
चतस्रः प्रतिमाः कृत्वा सौवर्णीस्तत्स्वरूपिणीः
उपचारैः षोडशभिः पूजयित्वा विधानतः
ततो निशीथे संप्राप्ते ऽभ्युदिते ऽमृतदीधितौ
चन्द्रमण्डलसंस्थायै महालक्ष्यै प्रदापयेत्
पीयूषधाम रोहिण्याः सहितार्ऽघ्यं गृहाण मे
विष्णुवक्षस्थलस्थे मे सर्वकामप्रदा भव
रेणुके त्राहि मां देवि राममातः शिवं कुरु
सम्यक्संपूज्य ताः सम्यग्गन्धयावककज्जलैः