सर्वपापविनिर्मुक्तो विष्णुलोकमवान्पुयात्
सर्वधर्मफलं पूर्णं संतुष्टः प्रददाति च
सफलानि भवन्त्येव सर्वकर्माणि भूपते
तमुद्दिश्य कृतं यच्च तदानन्त्याय कल्पते
कार्यं च विष्णुः करणानि विष्णुरस्मान्न किञ्चिव्द्यतिरिक्तमस्ति
प्रब्रवीमि नृपश्रेष्ठ तं शृणुष्व समाहितः
क्रोधादज्ञानतो वापिं तस्य वक्ष्यामि निष्कृतिम्
स्नानं त्रिषवणं विप्रपञ्चगव्येन शुध्यति
उच्छिष्टत्वे ऽशुचित्वे च तस्य शुद्धिं वदामि ते
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति
अहोरात्रोषितो भूत्वा जुहुयात्सर्पिषानलम्
भूमौ निधाय तं ग्रासं स्त्रात्वा शुद्धिमवान्पुयात्
अशित्वा चैव तत्सर्वं त्रिरात्रमशुचिर्भवेत्
स्वस्थस्त्रीणि सहस्राणि गायत्र्याः शोधनं परम्
चाण्डालैः श्वपर्चैः स्पृष्टो विण्मूत्रे च कृते द्विजः
उदक्यां सूतिकांवापि संस्पृशेदन्त्यजो यदि
रजस्वला तु संस्पृष्टा श्वभिर्मातङ्गवायसैः
रजस्वले यदा नार्यावन्योन्यं स्पृशतः क्वचित्
उच्छिष्टेन च संस्पृष्टो यो न स्नानं समाचरेत्
अनॄतौ तु स्त्रियं गत्वा शौचं मूत्रपुरूषवत्
शयनादुत्थिता नारी शुचिः स्यादशुचिः पुमान्
दण्ड्या द्वादशकं नारी वर्षं त्याज्या धनं विना
पिता हि पतितः कामं न तु माता कदाचन
मृते मेध्येन लेत्पव्यो जीवतो द्विशतं दमः
प्रायश्चित्तं ततः कुर्युर्यथाशास्त्रप्रचोदितम्
विषप्रपतनध्वस्ताः शस्त्रघातहताश्च ये
चान्द्रायणेन शुद्ध्यंन्ति तत्पकृच्छ्रद्वयेन वा
चान्द्रायणाभ्यां शुद्ध्येत दत्त्वा धेनुं तथा वृषम्
स्पृष्टः स्त्रात्वा शुचिः सद्यो दिवा संध्यासु रात्रिषु
गोमूत्रयावकाहारो मासार्द्धेन विशुद्ध्यति