कृष्णाष्टम्यां ज्येष्ठमासे पूजयित्वा त्रिलोचनम्
ज्येष्ठशुक्ले तथाष्टम्यां यो देवीं पूजयेन्नरः
शुक्लाष्टम्यां तथाऽषाढे स्नात्वा चैव निशांबुना
ततः शुद्धजलैः स्नाप्य विलिंपेत्सेंदुचन्दनैः
भोजयित्वा ततो विप्रान्दत्वा स्वर्णं च दक्षिणाम्
एतद्व्रतं नरः कृत्वा देवीलोकमवाप्नुयात्
क्षीरेण स्नापयित्वा च मिष्टान्नं विनिवेदयेत्
भुक्त्वा समापयेदद्व्रतं संततिवर्धनम्
उपवासं तु संकल्प्य स्नात्वा कृत्वा च नैत्यिकम्
कृष्णं विष्णुं तथानन्तं गोविन्दं गरुडध्वजम्
एतैश्च नामभिर्नित्यं कृष्णदेवं समर्चयेत्
एवं दशदिनं कुर्याद्व्रतानामुत्तमं व्रतम्
कृष्णमन्त्रेण जुहुयाच्चरुणाष्टोत्तरं शतम्
सौवर्णे ताम्रपात्रे वा मृन्मये वेणुपात्रके
हैमीं च प्रतिमां कृत्वा पूजयित्वा विधानतः
दातव्या गौः सवत्सा च वस्त्रालङ्कारभूषिता
ताश्च दद्याद्विधिज्ञाय स्वयं वा भक्षयेद्व्रती
दशमे ऽह्नि ततो मूर्तिं सद्रव्यां गुरवेर्ऽपयेत्
दद्यादेव दशाब्दं तु कृत्वा व्रतमनुत्तमम्
अन्ते कृष्णस्य सायुज्यं लभते नात्र संशयः
केवलेनोपवासेन तस्मिञ्जन्मदिने हरेः
उपवासी तिलैः स्नातो नद्यादौ विमले जले
तन्मध्ये कलशं स्थाप्य ताम्रजं वापि मृन्मयम्
हैमीं वस्त्रयुगाच्छन्नां कृष्णस्य प्रतिमां शुभम्
देवकीं वसुदेवं च यशोदां नन्दमेव च
तत आरार्तिकं कृत्वा क्षमाप्यानम्य भक्तितः
पञ्चामृतैः शुद्धजलैर्गन्धाद्यैः पूजयेत्पुनः
साज्यं रौप्ये धृतं पात्रे नैवेद्यं विनिवेदयेत्
विचिन्तयन्मृगाङ्काय दद्यादर्घ्यं समुद्यते
पौराणिकैः स्तोत्रपाठैर्गीतवाद्यैरनेकधा