एतत्सर्वाप्तिदं नाम संप्रोक्तं सार्वकामिकम्
माघस्य शुक्लसप्तम्यामचलाख्यं व्रतं स्मृतम्
रथाख्या सप्तमी चेयं चक्रवर्तित्वदायिनी
यो भावभक्तिसहितः स गतो हि लोकं शम्भोः स मोदत इहापि च भुक्तभोगः
अरुणोदयवेलायामस्यां स्नानं विधीयते
निधाय शिरसि स्नायात्सप्तजन्माघशान्तये
यो माघसितप्तम्यां पूजयेन्मां विधानतः
तस्माज्जितेन्द्रियो भूत्वा समुपोष्य दिवानिशम्
दध्योदनेन पयसा पायसेन च भोजयेत्
लभते स तु सत्पुत्रं चिरायुषमनामयम्
अर्कपत्रैर्यजेदर्कमर्कपत्राणि चाश्नुयात्
धनदं पुत्रदं चैतत्सर्वपापप्रणाशनम्
यज्ञव्रतं तथाप्यन्ये विधिवद्धोमकर्मणा
भास्कराराधनं प्रोक्तं सर्वकामिकमित्यलम्
प्रदक्षिणशतं कृत्वा कार्यो यात्रामहोत्सवः
अत्रैवाशो ककलिकाप्राशनं समुदाहृतम्
चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः
वैशाखस्य सिताष्टम्यां समुपोष्यात्र वारिणा
स्नापयित्वार्च्य गन्धाद्यैर्नैवेद्यं शर्करामयम्
ज्योतिर्मयविमानेन भ्राजमानो यथा रविः
कृष्णाष्टम्यां ज्येष्ठमासे पूजयित्वा त्रिलोचनम्
ज्येष्ठशुक्ले तथाष्टम्यां यो देवीं पूजयेन्नरः
शुक्लाष्टम्यां तथाऽषाढे स्नात्वा चैव निशांबुना
ततः शुद्धजलैः स्नाप्य विलिंपेत्सेंदुचन्दनैः
भोजयित्वा ततो विप्रान्दत्वा स्वर्णं च दक्षिणाम्
एतद्व्रतं नरः कृत्वा देवीलोकमवाप्नुयात्
क्षीरेण स्नापयित्वा च मिष्टान्नं विनिवेदयेत्
भुक्त्वा समापयेदद्व्रतं संततिवर्धनम्
उपवासं तु संकल्प्य स्नात्वा कृत्वा च नैत्यिकम्
कृष्णं विष्णुं तथानन्तं गोविन्दं गरुडध्वजम्