श्रावणे शुक्लसप्तम्यामव्यङ्गाख्यं व्रतं शुभम्
पूजान्ते प्रीतये देयं व्रतमेतच्छुभावहम्
अस्यां दानं जपो होमः सर्वं चाक्षय्यतां व्रजेत्
सोमस्य तु महेशस्य पूजनं चात्र कीर्तितम्
प्रार्थ्य प्रणम्य विसृजेत्सर्वकामसमृद्धये
नालिकेरं च वृन्ताकं नारङ्गं बीजपूरकम्
महादेवस्य पुरतो विन्यस्यापरदोरकम्
संपूज्य परया भक्त्या धारयेद्वामके करे
संभोज्य विप्रान्सप्तैव पायसेन विसृज्यस तान्
फलानि तानि देयानि सप्तस्वपि द्विजेषु च
सायुज्यं लभते विप्र महादेवस्य तद्व्रती
तस्यां कृतस्नानपूजो वाचयित्वा द्विजोत्तमान्
त्वामहं दद्मि कल्याणि प्रीयतामर्यमा स्वयम्
इत्युक्त्वा वेदविदुषे दत्त्वा कृत्वा च दक्षिणाम्
पचगव्यं व्रतं चेत्थं विधाय श्वो द्विजोत्तमान्
कृतं ह्येतद्गतं विप्र सुभाष्यं श्रद्धयान्वितः
अथ कार्तिकशुक्लायां शाकाख्यं सप्तमीव्रतम्
प्रदद्यात्सप्तविप्रेभ्यः शाकाहारस्ततः स्वयम्
विसृज्य बन्धुभिः सार्द्धं स्वयं भुञ्जीत वाग्यतः
यद्विष्णोर्दक्षिणं नेत्रं तदेव कृतवानिह
अतो ऽस्यां पूजनं तस्य यथोक्तविधिना द्विज
सुवर्णदक्षिणां दत्वा विसृज्याश्नीत च स्वयम्
द्विजोब्राह्मं तथा शूद्रः सत्कुलेजन्म चाप्नुयात्
उपोष्य भानुं त्रिःसन्ध्यं समभ्यर्च्य धरास्थितः
द्विजाय दत्वा भोज्यान्यान्सप्ताष्टभ्यश्च दक्षिणाम्
अभयाख्यं व्रतं त्वेतत्सर्वस्याभयदं स्मृतम्
एकमेवेति च प्रोक्तमेकदैवतया बुधैः
समुपोष्य दिने तस्मिन्सम्पूज्यादित्यबिम्बकम्
परे ऽह्नि विप्रान्सम्भोज्य पायसेन तु सप्त वै
सौवर्णं तु रवेर्बिम्बं युक्तं दक्षिणया न्यया