क्षमाप्य प्रणिपत्यैनं कैलासाय विसर्जयेत्
इह भुक्त्वा वरान्भोगानन्ते शिवगतिं लभेत्
यानि कृत्वा नरो भक्त्या सूर्यसायुज्यमाप्नुयात्
स्थण्डिले गोमयालिप्ते गौरमृत्तिकयास्तृते
विन्यसेत्पूर्वपत्रे तु देवौ द्वौ कृतधातुकौ
दक्षिणे च न्यसेत्पत्रे तथैव राक्षसद्वयम्
काद्रवेयौ महानागौ पश्चिमे कृतचारकौ
ऐशान्ये विन्यसेत्पत्पे ग्रहमेको द्विजोत्तम
दीपैर्धूपैः सनैवेद्यैस्तांबूलक्रमुकादिभिः
सूर्यस्याष्टाष्ट चान्येषां प्रदद्यादाहुतीः क्रमात्
दक्षिणा च ततो देया द्विजेभ्यः शक्तितो द्विज
देहान्ते मण्डलं भानोर्भत्त्वा गच्छेत्परं पदम्
क्रोधात्पीता पुनस्त्यक्ता कर्णरन्ध्रात्तु दक्षिणात्
गन्धपुष्पाक्षताद्यैश्च सर्वैरेवोपचारकैः
भक्त्या कृतं सप्तकुलं नयेत्स्वर्गमसंशयः
तिलमात्रं तु सौवर्णं विधाय कमलं शुभम्
नमस्ते पद्महस्ताय नमस्ते विश्वधारिणे
इति संप्रार्थ्य देवेशं सूर्ये चास्तमुपागते
तद्दिने तूपवस्तव्यं भोक्तव्यं च परे ऽहनि
निबव्रतं च तत्रेव तद्विधानं शृणुष्व मे
खखोल्कायेति मन्त्रेण प्रणवाद्येन नारद
द्विजान्परे ऽह्नि संभोज्य स्वयं भुञ्जीत बन्धुभिः
सप्तमी शर्कराख्यैषा प्रोक्ता तच्चापि मे शृणु
निष्पेतुर्भुवि चोत्पन्नाः शालिमुद्गयवेक्षवः
इष्टा रवेरतः पुण्या शर्करा हव्यकव्ययोः
सर्वदुःखोपशमनी पुत्रसंततिवर्धिनी
कर्तव्यं हि प्रयत्नेन व्रतमे तद्रविप्रियम्
ज्येष्ठे तु शुक्लसप्तम्यां जात इन्द्रो रविः स्वयम्
स्वर्गतिं लभते विप्र देवेन्द्रस्य प्रसादतः
जातस्तं तत्र संप्रार्च्य गन्धपुष्पादिभिः पृथक्