यदि चेत्सा समुद्दिष्टा चंपाह्वा मुनिसत्तम
पूजनीयो वेदनीयः स्मर्तव्यः सौख्यमिच्छता
पौषमासे शुक्लषष्ठ्यां देवो दिनपतिर्द्विज
विष्णुरूपी जगत्त्राता प्रदुर्भूताः सनातनः
नैवेद्यैर्वस्त्त्रभूषाद्यैः सर्वसौख्यमभीप्सुभिः
तस्यां वरुणमभ्यर्च्येद्विष्णुरूपं सनातनम्
एवमभ्यर्च्य विधिवद्यद्यच्चाभिलषेन्नरः
फआल्गुने शुक्लषष्ठ्यां तु देवं पशुपतिं द्विज
संस्नाप्य शतरुद्रेण पृथक्पञ्चामृतैर्जलैः
बिल्वपत्रैश्च धत्तूरकुसुमैश्च फलैस्तथा
क्षमाप्य प्रणिपत्यैनं कैलासाय विसर्जयेत्
इह भुक्त्वा वरान्भोगानन्ते शिवगतिं लभेत्
यानि कृत्वा नरो भक्त्या सूर्यसायुज्यमाप्नुयात्
स्थण्डिले गोमयालिप्ते गौरमृत्तिकयास्तृते
विन्यसेत्पूर्वपत्रे तु देवौ द्वौ कृतधातुकौ
दक्षिणे च न्यसेत्पत्रे तथैव राक्षसद्वयम्
काद्रवेयौ महानागौ पश्चिमे कृतचारकौ
ऐशान्ये विन्यसेत्पत्पे ग्रहमेको द्विजोत्तम
दीपैर्धूपैः सनैवेद्यैस्तांबूलक्रमुकादिभिः
सूर्यस्याष्टाष्ट चान्येषां प्रदद्यादाहुतीः क्रमात्
दक्षिणा च ततो देया द्विजेभ्यः शक्तितो द्विज
देहान्ते मण्डलं भानोर्भत्त्वा गच्छेत्परं पदम्
क्रोधात्पीता पुनस्त्यक्ता कर्णरन्ध्रात्तु दक्षिणात्
गन्धपुष्पाक्षताद्यैश्च सर्वैरेवोपचारकैः
भक्त्या कृतं सप्तकुलं नयेत्स्वर्गमसंशयः
तिलमात्रं तु सौवर्णं विधाय कमलं शुभम्
नमस्ते पद्महस्ताय नमस्ते विश्वधारिणे
इति संप्रार्थ्य देवेशं सूर्ये चास्तमुपागते
तद्दिने तूपवस्तव्यं भोक्तव्यं च परे ऽहनि
निबव्रतं च तत्रेव तद्विधानं शृणुष्व मे