गङ्गाद्वारे कुशावर्त्ते विल्वके नीलपर्वते
ललिते सुभगं देवि सुखसौभाग्यदायिनि
मन्त्रेणानेन कुसुमैश्वंपकस्य सुशोभनैः
त्रपुषैरपि कूष्माण्डैर्नालिकेरैः सुदाडिमैः
फलैस्तत्कालसंभूतैः कृत्वा शोभां तदग्रतः
साद्धै सर्गणकैधूपः सौहालककरञ्जकैः
बहुप्रकारैर्नैवेद्यैर्यथा विभवसारतः
गीतवाद्यनटैर्नृत्यैः प्रोक्षणीयैरनेकधा
न च संमीलयेन्नेत्रे नारीयामचतुष्टयम्
एवं जागरणं कृत्वा सप्तम्यां सरितं नयेत्
तच्च दद्याद्द्विजेन्द्राय नैवेद्यादि द्विजोत्तम
देवान्पितॄन्मनुष्यांश्च पूजयित्वा सुवासिनीः
भक्ष्यभोज्यैर्बहुविधैर्दत्वा दानानि भूरिशः
यः कश्चिदाचरेदेतद्व्रतं सौभाग्यदं परम्
यद्व्रतैश्च तपोभिश्च दानैर्वा नियमैरपि
मृतेरनन्तरं प्राप्य शिवलोकं सनातनम्
नभस्ये मासि या शुक्ला षष्ठी सा चन्दनाह्वया
रोहिणी पातभौमैस्तु संयुता कपिला भवेत्
लभते वाञ्छितान्कामान्भास्करस्य प्रसादतः
सर्वमेवाक्षयं ज्ञेयं कृतं देवर्षिसत्तम
प्रदद्याद्वेदविदुषे द्वादशात्मप्रतुष्टये
गन्धाद्यैर्मङ्गलद्रव्यैर्नैवेद्यैर्विविधैस्तथा
पूज्यात्र सैकती मूर्तिर्यद्वा द्विजसती मुदा
कन्या वरं प्राप्नुयाच्च वाञ्चितं पुत्रमङ्गना
कार्तिके शुक्लषष्ठ्यां तु षण्मुखेन महात्मना
अतस्तस्यां सुरश्रेष्ठां देवसेनां च षण्मुखम्
प्राप्नुयादतुलां सिद्धिं मनोभीष्टां द्विजोत्तम
विविधद्रव्यहोमैश्च वह्निपूजापुरः सरम्
स्कन्देन सत्कृतिः प्राप्ता ब्रहमाद्यैः परिकल्पिता
वस्त्रैराभूषणश्चापि नैवेद्यैर्विविधैस्तथा