वैशाखशुक्लषष्ठ्यां च पूजयित्वा च कार्तिकम्
ज्येष्ठमासे शुक्लषष्ठ्यां विधिनेष्ट्वा दिवाकरम्
आषाढशुक्लषष्ठ्यां वै स्कन्दव्रतमनुत्तमम्
लभते ऽभीप्सितान्कामान्पुत्रपौत्रादिसंततीः
उपचारैः षोडशभिर्भक्त्या परमयान्वितः
भाद्रमासे कृष्णषष्ट्यां ललिताव्रतमुच्यते
शुक्तमाल्ययधरा वापि नद्याः संगमवालुकाम्
पञ्चधा ललितां तत्र ध्यायेद्वनविलासिनीम्
नीलोत्पलं केतकीं च संगृह्य तगरं तथा
अक्षताः कलिका गृह्य ताभिर्देवीं प्रपूजयेत्
गङ्गाद्वारे कुशावर्त्ते विल्वके नीलपर्वते
ललिते सुभगं देवि सुखसौभाग्यदायिनि
मन्त्रेणानेन कुसुमैश्वंपकस्य सुशोभनैः
त्रपुषैरपि कूष्माण्डैर्नालिकेरैः सुदाडिमैः
फलैस्तत्कालसंभूतैः कृत्वा शोभां तदग्रतः
साद्धै सर्गणकैधूपः सौहालककरञ्जकैः
बहुप्रकारैर्नैवेद्यैर्यथा विभवसारतः
गीतवाद्यनटैर्नृत्यैः प्रोक्षणीयैरनेकधा
न च संमीलयेन्नेत्रे नारीयामचतुष्टयम्
एवं जागरणं कृत्वा सप्तम्यां सरितं नयेत्
तच्च दद्याद्द्विजेन्द्राय नैवेद्यादि द्विजोत्तम
देवान्पितॄन्मनुष्यांश्च पूजयित्वा सुवासिनीः
भक्ष्यभोज्यैर्बहुविधैर्दत्वा दानानि भूरिशः
यः कश्चिदाचरेदेतद्व्रतं सौभाग्यदं परम्
यद्व्रतैश्च तपोभिश्च दानैर्वा नियमैरपि
मृतेरनन्तरं प्राप्य शिवलोकं सनातनम्
नभस्ये मासि या शुक्ला षष्ठी सा चन्दनाह्वया
रोहिणी पातभौमैस्तु संयुता कपिला भवेत्
लभते वाञ्छितान्कामान्भास्करस्य प्रसादतः
सर्वमेवाक्षयं ज्ञेयं कृतं देवर्षिसत्तम