पुण्यैर्मन्त्रैस्तथैवान्यैर्हुत्वा पूर्णाहुतिं चरेत्
आचार्यं पूजयेज्जैव वस्त्रालङ्कारभूषणैः
भोजयित्वा तु तान्भक्त्या प्रणिपत्य विसर्जयेत्
भुङ्क्त्वा वै षड्रसोपेतं प्रमुद्यात्सह बन्धुभिः
सप्तर्षीणां प्रसादेन विमानवरगो भवेत्
आश्विने शुक्लपञ्चम्यामुपाङ्गललिताव्रतम्
उपचारैः षोडशभिः पूजयेत्तां विधानतः
द्विजवर्याय दातव्यं व्रतसंपूर्तिहेतवे
मातर्मामनुगृह्याथ गम्यतां निजमन्दिरम्
कर्तव्यं पापनाशाय श्रद्धया द्विजसत्तम
उपचारैः षोडशभिस्ततः शुचिरलङ्कृतः
विसर्जयेत्ततः पश्चात्स्वयं भुञ्जीत वाग्यतः
नश्यन्ति तस्य पापानि सिंहाक्रान्ता मृगा यथा
तत्फलं प्राप्यते विप्रस्नानेनापि जयादिने
रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात्
नागेभ्यो ह्यभयं लब्ध्वा मोदते सह बान्धवैः
लभते बाञ्छितान्कामान्नात्र कार्या विचारणा
पितॄणां पूजनं शस्तं नागानां चापि सर्वथा
यानि सम्यग्विधायात्र लभघेत्सर्वान्मनोरथान्
तत्रेष्ट्वा षण्मुखं देवं नानापूजा विधानतः
वैशाखशुक्लषष्ठ्यां च पूजयित्वा च कार्तिकम्
ज्येष्ठमासे शुक्लषष्ठ्यां विधिनेष्ट्वा दिवाकरम्
आषाढशुक्लषष्ठ्यां वै स्कन्दव्रतमनुत्तमम्
लभते ऽभीप्सितान्कामान्पुत्रपौत्रादिसंततीः
उपचारैः षोडशभिर्भक्त्या परमयान्वितः
भाद्रमासे कृष्णषष्ट्यां ललिताव्रतमुच्यते
शुक्तमाल्ययधरा वापि नद्याः संगमवालुकाम्
पञ्चधा ललितां तत्र ध्यायेद्वनविलासिनीम्
नीलोत्पलं केतकीं च संगृह्य तगरं तथा
अक्षताः कलिका गृह्य ताभिर्देवीं प्रपूजयेत्