यस्तु देवालये राजन्नपि गोचर्ममात्रकम्
गन्धोदकेन यः सिञ्चेद्देवतायतने भुवम्
मृदा धातुविकारैर्वा यो लिम्पेद्देवतागृहम्
शिलाचूर्णेन यो मर्त्यो देवागारं तु लोपयेत्
यः कुर्याद्दीपरचनां देवतायतने नृप
अखण्डदीपं यः कुर्याद्विष्णोर्वा शङ्करस्य च
अर्चितं शङ्करं दृष्ट्वा विष्णुं वापि नमेत्तु यः
देव्याः प्रदक्षिणामेकां सत्प सूर्यस्य भूमिप
कृत्वा तत्तद्गृहं प्राप्य मोदते युगलक्षकम्
प्रदक्षिणां चररेत्तस्य ह्यश्वमेधः पदे पदे
न तस्य विद्यते कृत्यं संसृतिर्नैव जायते
नरो न च्यवते स्वर्गाच्छङ्करस्य प्रसादतः
सर्वान्कामानवान्पोति मनसा यद्यदिच्छति
गायते वा स भूपाल रुद्रलोके च मुक्तिभाक्
ते हंसयानमारुढा व्रजन्ति ब्रह्मणः पदम्
सर्वपापनिर्मुक्ता विमानस्था युगायुतम्
तेषां पुण्यं निगदितुं न समर्थः शिवः स्वयम्
संप्रीणयन्ति देवेशं तेषां पुण्यफलं शृणु
स्वर्गलोकमनुप्राप्य मोदन्ते कल्पपञ्चकम्
सर्वपापविनिर्मुक्तो विष्णुना सह मोदते
सर्वपापविनिर्मुक्तो विष्णुलोकमवान्पुयात्
सर्वधर्मफलं पूर्णं संतुष्टः प्रददाति च
सफलानि भवन्त्येव सर्वकर्माणि भूपते
तमुद्दिश्य कृतं यच्च तदानन्त्याय कल्पते
कार्यं च विष्णुः करणानि विष्णुरस्मान्न किञ्चिव्द्यतिरिक्तमस्ति
प्रब्रवीमि नृपश्रेष्ठ तं शृणुष्व समाहितः
क्रोधादज्ञानतो वापिं तस्य वक्ष्यामि निष्कृतिम्
स्नानं त्रिषवणं विप्रपञ्चगव्येन शुध्यति
उच्छिष्टत्वे ऽशुचित्वे च तस्य शुद्धिं वदामि ते
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति