सोपवासो नयेदष्टयामं तद्दिनमेव वा
व्रतमेतत्समुदितं शुभाशुभनिदर्शनम्
श्रावणे कृष्णपञ्चम्यां व्रतं ह्यन्नसमृद्धिदम्
पृथक् पात्रेषु संस्थाप्य जलैराप्लावयेत्सुधीः
प्रातर्भानौ समुदिते पितॄंश्चैव तथा ऋषीन्
तदन्नं याचकेभ्यस्तु प्रयच्छेत्प्रीतमानसः
गत्वा संपूजयेद्देवं लिङ्गरूपिणमीश्वरम्
जपेत्पञ्चाक्षरी विद्यां शतं चापि सहस्रकम्
स्तुत्वा सर्वैर्वौन्दिकैश्च पौराणैश्चाप्यनाकुलः
शारदीयानि चान्नानि तथा वासंतिकान्यपि
एवं संप्रार्थ्य देवेशं गृहमागत्य वै स्वकम्
एतदन्नव्रतं विप्र विधिनाऽचरितं नृभिः
श्रावणे शुक्लपञ्चजम्यां नृभिरास्तिक्यतत्परैः
गन्धाद्यैः पूजयेत्तांश्च तथेन्द्राणीमनन्तरम्
गन्धैः पुष्पैस्तथा धूपैर्दीपैर्नैवेद्यसंचयैः
संप्रार्थ्य भक्तिभावेन विप्राग्र्येषु समर्पयेत्
तदनन्तफलं भूयान्मम जन्मनि जन्मनि
प्रसन्नः स्याद्धनाध्यक्षः स्वर्णादिकसमृद्धिदः
पश्चात्स्वयं च भुञ्जीत दारापत्यसुहृद्दृतः
भाद्रे तु कृष्णपञ्चम्यां नागान् क्षीरेण तर्पयेत्
भाद्रस्य शुक्लपञ्चम्यां पूजयेदृषिसत्तमान्
गृहमागत्य यत्नेन वेदिकां कारयेन्मृदा
तत्रास्तीर्य कुशान्विप्रऋषीन्सप्त समर्चयेत्
कश्यपो ऽत्रिर्भरद्वाजौ विश्वामित्रो ऽथ गौतमः
एतैभ्यो ऽघ्य च विधिवत्कल्पयित्वा प्रदाय च
तन्निवेद्य विसृज्येमान्स्वयं चाद्यात्तदेव हि
कृत्वा व्रतान्ते वरयेदाचार्यान् सप्त वैदिकान्
जटिलाः साक्षसूत्राश्च कमण्डलुसमन्विताः
स्नापयेद्विधि वद्भक्त्या पृथक्पञ्चामृतैरपि
अर्घ्यं दत्वा ततो होमं तिलव्रीहियवादिभिः