ललिताव्रतमित्यन्यैः शान्तिव्रतमथापरैः
भवेत्सह स्रगुणितं प्रसादाद्दन्तिनः सदा
तिलषिष्टैर्द्विजान् भोज्य स्वयं चाश्नीत मानवः
तिलैरेव कृतैः सिद्धिं प्राप्नुयात्तत्प्रसादतः
द्विजाग्र्याय प्रदातव्यं सर्वसंपत्समृद्धये
सांगारका वा विप्रेन्द्र सा विशेषफलप्रदा
विघ्नेश एव देवेशः संपूज्यो भक्तितत्परैः
यानि भक्त्या समास्थाय सर्वान्कामानवाप्नुयात्
अस्यां मत्स्यावतारार्चा भक्तैः कार्या महोत्सवा
गन्धाद्यैरुपचारैस्तु नैवेद्यैः पायसादिभिः
पृथ्वीव्रतं तथा चान्द्रं हयगरीवव्रतं तथा
अथ वैशाखपञ्चम्यां शेषं चाभ्यर्च्य मानवः
तथा ज्येष्ठस्य पञ्चम्यां पितॄनभ्यर्चयेत्सुधीः
अथाषाढस्य पञ्चम्यां वायुं सर्वगतं मुने
ध्वजं च पञ्चवर्णं तु वंशदण्डाग्रसंस्थितम्
ततस्तन्मूलदेशे तु दिक्षु सर्वासु नारद
प्रथमादिषु यामेषु यो यो वायुः प्रवर्तते
एवं स्थित्वा निराहारस्तत्र यामचतुष्टयम्
लोकपालान्नमस्कृत्य स्वप्याद्भूमितले शुचौ
स एव भविता नूनं स्वप्न इत्याह वै शिवः
सोपवासो नयेदष्टयामं तद्दिनमेव वा
व्रतमेतत्समुदितं शुभाशुभनिदर्शनम्
श्रावणे कृष्णपञ्चम्यां व्रतं ह्यन्नसमृद्धिदम्
पृथक् पात्रेषु संस्थाप्य जलैराप्लावयेत्सुधीः
प्रातर्भानौ समुदिते पितॄंश्चैव तथा ऋषीन्
तदन्नं याचकेभ्यस्तु प्रयच्छेत्प्रीतमानसः
गत्वा संपूजयेद्देवं लिङ्गरूपिणमीश्वरम्
जपेत्पञ्चाक्षरी विद्यां शतं चापि सहस्रकम्
स्तुत्वा सर्वैर्वौन्दिकैश्च पौराणैश्चाप्यनाकुलः
शारदीयानि चान्नानि तथा वासंतिकान्यपि