ततोर्ऽघ्यं ताम्रजे पात्रे रक्तचन्दनमिश्रितम्
सशमीपत्रदधि च कृत्वा चन्द्राय दापयेत्
गृहाणार्घ्यं मया दत्तं गणेशप्रतिरूपक
शक्त्या संभोज्य विप्राग्र्यान्स्वयं भुञ्जीत चाज्ञया
समृद्धो धनधान्यैः स्यान्न च संकष्टमाप्नुयात्
तस्यां तु गौरी संपूज्या संयुक्ता योगिनीगणैः
रक्तसूत्रे रक्तपुष्पैस्तथैवालक्तकेन च
पयसा पायसेनापि लवणेन च पालकैः
सौभाग्यवृद्धये देयो भोक्तव्यं बन्धुभिः सह
प्रतिवर्षं प्रकर्त्तव्यं नारीभिश्च नरैस्तथा
ललिताव्रतमित्यन्यैः शान्तिव्रतमथापरैः
भवेत्सह स्रगुणितं प्रसादाद्दन्तिनः सदा
तिलषिष्टैर्द्विजान् भोज्य स्वयं चाश्नीत मानवः
तिलैरेव कृतैः सिद्धिं प्राप्नुयात्तत्प्रसादतः
द्विजाग्र्याय प्रदातव्यं सर्वसंपत्समृद्धये
सांगारका वा विप्रेन्द्र सा विशेषफलप्रदा
विघ्नेश एव देवेशः संपूज्यो भक्तितत्परैः
यानि भक्त्या समास्थाय सर्वान्कामानवाप्नुयात्
अस्यां मत्स्यावतारार्चा भक्तैः कार्या महोत्सवा
गन्धाद्यैरुपचारैस्तु नैवेद्यैः पायसादिभिः
पृथ्वीव्रतं तथा चान्द्रं हयगरीवव्रतं तथा
अथ वैशाखपञ्चम्यां शेषं चाभ्यर्च्य मानवः
तथा ज्येष्ठस्य पञ्चम्यां पितॄनभ्यर्चयेत्सुधीः
अथाषाढस्य पञ्चम्यां वायुं सर्वगतं मुने
ध्वजं च पञ्चवर्णं तु वंशदण्डाग्रसंस्थितम्
ततस्तन्मूलदेशे तु दिक्षु सर्वासु नारद
प्रथमादिषु यामेषु यो यो वायुः प्रवर्तते
एवं स्थित्वा निराहारस्तत्र यामचतुष्टयम्
लोकपालान्नमस्कृत्य स्वप्याद्भूमितले शुचौ
स एव भविता नूनं स्वप्न इत्याह वै शिवः