समर्प्य देवदेवाय भक्त्या प्रयतमानसा
सुवासिनीभ्यो विप्रेभ्यो यथाकामं च सादरम्
भुञ्जीत मिष्टमन्नं च व्रतस्य परिपूर्तये
सपूगाक्षतरत्नाढ्यं द्विजाय प्रतिपादयेत्
उपायनं विधायाथ व्रतमेतद्विसर्ज्जयेत्
व्रतेनानेन सदृशं स्त्रीणां सौभाग्यदायकम्
ऊर्ज्जशुक्लचतुर्थ्यां तु नागव्रतमुदाहृतम्
पीत्वा स्नात्वाथ मध्याह्ने शङ्खपालादिपन्नगान्
क्षीरेणाप्यायनं कुर्यादेतन्नागव्रतं स्मृतम्
विषाणि नश्यन्त्यचिरान्न दशन्ति च पन्नगाः
क्षपयेदेकभक्तेन नक्तेनाथ द्वितीयकम्
एवं क्रमेण विधिवच्चत्वार्यब्दानि मानवः
कारयेद्धेमघटितं भूगणेर्मूषकं रथम्
तस्योपरि घटं स्थाप्य ताम्रपात्रेण संयुतम्
न्यसेद्वस्त्रयुगाच्छन्नं गन्धाद्यैः पूजयेच्च तम्
जागरैर्शीतवाद्याद्यैः पुराणाख्यानकैश्चरेत्
तिलव्रीहियवश्वेतसुर्षपाज्यैः सखण्डकैः
लंबोदरैकदन्तौ च रुक्मदंष्ट्रश्च विघ्नपः
गन्धमादी परमेष्ठीत्येवं षोडशनामभिः
वक्रतुण्डेति ङेंतेन बर्मान्तेनाष्टयुक्छतम्
दिक्पालान्पूजयित्वा च ब्राह्मणान्भोजयेत्ततः
सवत्सां गां ततो दद्यादाचार्याय सदक्षिणाम्
प्रणम्य दक्षिणीकृत्य प्रविसृज्य द्विजोत्तमाम्
एतद्व्रतं नरः कृत्वा भुक्त्वा भोगानिहोत्तमान्
केचिद्वरव्रतं नाम प्राहुरेतस्य नारद
पौषमासचतुर्थ्यां तु विघ्नेशं प्रार्थ्य भक्तितः
एवं कृते मुने भूयाद्व्रती संपत्तिभाजनम्
तत्रोपवासं संकल्प्य व्रती नियमपूर्वकम्
ततश्चन्द्रोदये प्राप्ते मृन्मयं गणनायकम्
उपचारैः षोडशभिः समभ्यर्च्य विधानतः