पञ्चाब्दं वादशाब्दं वा षोडशाब्दमथापि वा
प्रभावेण व्रतस्यास्य भुक्त्वा भोगान्मनोरमान्
अथ शुक्ल चतुर्थ्यां तु सिद्धवैनायकव्रतम्
एकाग्रमानसो भूत्वा ध्यायेत्सिद्धिविनायकम्
पाशाङ्कुशधरं देवं तप्तकाञ्चनसन्निभम्
समर्पयेद्भक्तियुक्तस्तानि नामानि वै शृणु
उमापुत्राय बैल्वं तु दूर्वां गजमुखाय च
शूर्पकर्णाय तुलसीं वक्रतुण्डाय शिंबिजम्
हेरम्बाय तु सिंदूरं चतिर्हेत्रे च पत्रजम्
दूर्वायुग्मं ततो गृह्य गन्धपुष्पाक्षतैर्युतम्
आचमय्य नमस्कृत्य संप्रार्थ्य च विसर्ज्जयेत्
निवेदयेच्च गुरवे द्विजेभ्यो दक्षिणां ददेत्
उपास्य लभते कामानैहिकामुष्मिकान् शुभान्
अथ तद्दोषनाशाय मन्त्रं पौराणिकं पठेत्
सकुमारक मा रोदीस्तव ह्येष स्यमन्तकः
इषशुक्लचतुर्थ्यां तु कपर्द्दीशं विनायकम्
अकारणान्मुष्टिगतांस्तण्डुलान्सकपर्द्दिकान्
तण्डुला वैश्वदैवत्या हरदैवत्यमिश्रिताः
चतुर्थ्यां कार्तिके कृष्णे करकाख्यं व्रतं स्मृतम्
पूजयेच्च गणाधीशं स्नाता स्त्रीसमलङ्कृता
समर्प्य देवदेवाय भक्त्या प्रयतमानसा
सुवासिनीभ्यो विप्रेभ्यो यथाकामं च सादरम्
भुञ्जीत मिष्टमन्नं च व्रतस्य परिपूर्तये
सपूगाक्षतरत्नाढ्यं द्विजाय प्रतिपादयेत्
उपायनं विधायाथ व्रतमेतद्विसर्ज्जयेत्
व्रतेनानेन सदृशं स्त्रीणां सौभाग्यदायकम्
ऊर्ज्जशुक्लचतुर्थ्यां तु नागव्रतमुदाहृतम्
पीत्वा स्नात्वाथ मध्याह्ने शङ्खपालादिपन्नगान्
क्षीरेणाप्यायनं कुर्यादेतन्नागव्रतं स्मृतम्
विषाणि नश्यन्त्यचिरान्न दशन्ति च पन्नगाः