पूर्वोक्तेन विधानेन पूजितापि द्विजोत्तम
माघशुक्लतृतीयायां पूज्या सौभाग्यसुंदरी
प्रसन्ना दिशति स्वीयं लोकं तु व्रततोषिता
पूजिता गन्धपुष्पाद्यैः सर्वमङ्गलदा भवेत्
देवीपूजा विप्रपूजा दानं होमो विसर्जनम्
भक्त्या कृतानि चेष्टांस्तु कामान्दर्द्युमनोगतान्
यानि कृत्वा नरा नार्यो ऽभीष्टान्कामानवाप्नुयुः
गणपं सम्यगभ्यर्च्य दत्त्वा काञ्चनदक्षिणाम्
वैशाखस्य चतुर्थ्यां तु प्रार्थ्यं संकर्षणाह्वयम्
प्राप्य संकर्षणं लोकं मोदते बहुकल्पकम्
फलं मूलं च युथेभ्यो दत्त्वा स्वर्गं लभेन्नरः
यतिभ्यो ऽलाबुपात्राणि दत्त्वाभीष्टं लभेन्नरः
उद्यापनं विधानेन कर्तव्यं फलमिच्छता
कृत्वा गणपतेर्मातुर्लोके मोदेत तत्समम्
रथन्तराह्वकल्पस्य ह्यादिभूतं दिनं यतः
पूजयित्वा लभेच्चापि फलं देवादिदुर्गमम्
श्रावणस्य चतुर्थ्यां तु जाति चन्द्रोदये मुने
लम्बोदरं चतुर्बाहुं त्रिनेत्रं रक्तवर्णकम्
आवाहनादिभिः सर्वैरुपचारैः समर्चयेत्
एवं व्रतं विधायाथ भुक्त्वा मोदकमेव च
व्रतस्यास्य प्रभावेण कामान्मनसि चिन्तितान्
नानेन सदृशं चान्यद्व्रतमस्ति जगत्त्रये
अथास्मिन्नेव दिवसे दूर्वागणपति व्रतम्
हैमं निर्माय गणपं ताम्रपात्रोपरि स्थितम्
पूजयेद्रक्तकुसुमैः पत्रिकाभिश्च पञ्चभिः
आभिरन्यश्च कुसुमैरभ्यर्च्य फलमोदकैः
ततः संप्रारथ्य विघ्नेशमूर्तिं सोपस्करां मुने
कृत्वैवं पञ्च वर्षाणि समुपास्य यथाविधि
अथ भाद्रचतुर्थ्यां तु बहुलाधेनुसंज्ञकम्
ततः प्रदक्षिणीकृत्य शक्तश्चेद्दानमाचरेत्