सिंदूरं जीरकं चैव सौभाग्यद्रव्यसंयुतम्
वायनानि च पञ्चैव ताभ्यो दद्याच्च भोजयेत्
तत्फलं धारयेत्कण्ठे सर्वकामसमृद्धये
गीतवाद्ययुता नद्यां गौरीं तां तु विसर्जयेत्
मम सौभाग्यदानाय यथेष्टं गम्यतां त्वया
भुक्त्वा भोगांस्तु देहान्ते गौरीलोकमवाप्नुयात्
पूजयित्वा जगद्वन्द्यामुपचारैः पृथग्विधैः
विसर्जयेत्प्रणम्यैनां विष्णुगौरीप्रतुष्टये
कृत्वा पूर्वविधानेन पूजयेज्जगदंबिकाम्
देवीलोकं समासाद्य मोदते च तया सह
पूर्वोक्तेन विधानेन पूजितापि द्विजोत्तम
माघशुक्लतृतीयायां पूज्या सौभाग्यसुंदरी
प्रसन्ना दिशति स्वीयं लोकं तु व्रततोषिता
पूजिता गन्धपुष्पाद्यैः सर्वमङ्गलदा भवेत्
देवीपूजा विप्रपूजा दानं होमो विसर्जनम्
भक्त्या कृतानि चेष्टांस्तु कामान्दर्द्युमनोगतान्
यानि कृत्वा नरा नार्यो ऽभीष्टान्कामानवाप्नुयुः
गणपं सम्यगभ्यर्च्य दत्त्वा काञ्चनदक्षिणाम्
वैशाखस्य चतुर्थ्यां तु प्रार्थ्यं संकर्षणाह्वयम्
प्राप्य संकर्षणं लोकं मोदते बहुकल्पकम्
फलं मूलं च युथेभ्यो दत्त्वा स्वर्गं लभेन्नरः
यतिभ्यो ऽलाबुपात्राणि दत्त्वाभीष्टं लभेन्नरः
उद्यापनं विधानेन कर्तव्यं फलमिच्छता
कृत्वा गणपतेर्मातुर्लोके मोदेत तत्समम्
रथन्तराह्वकल्पस्य ह्यादिभूतं दिनं यतः
पूजयित्वा लभेच्चापि फलं देवादिदुर्गमम्
श्रावणस्य चतुर्थ्यां तु जाति चन्द्रोदये मुने
लम्बोदरं चतुर्बाहुं त्रिनेत्रं रक्तवर्णकम्
आवाहनादिभिः सर्वैरुपचारैः समर्चयेत्
एवं व्रतं विधायाथ भुक्त्वा मोदकमेव च