अथाषाढतृतीयायां शुक्लायां शुक्लवाससा
भोजनैः सुरभीदानैर्वस्त्रैश्चापि विभूषणैः
समुपास्य व्रतं चैतद्धनधान्यसमन्विता
नभः शुक्लतृतीयायां स्वर्णगौरीव्रतं चरेत्
पुत्रान्देहि धनं देहि सौभाग्यं देहि सुव्रते
एवं संप्रार्थ्य देवेशीं भवानीं भवसंयुताम्
एवं षोडशवर्षाणि कृत्वा नारी व्रतं शुभम्
मण्डपे मण्डले शुद्धे गणेशादिसुरार्चनम्
सौवर्णीं प्रतिमां तत्र भवान्याः प्रतिपूजयेत्
वेणुपात्रैः षोडशभिः पक्वान्नपरिपूरितैः
वायनं च ततः पश्चाद्दद्यात्संबन्धिबन्धुषु
पूर्णं लभेत्फलं नारी व्रताचरणतत्परा
कुर्याद्भक्त्या विधानेन पाद्यार्ध्यार्चन पूर्वकम्
वैणवे मृन्मये वापि विन्यस्यान्नं सदक्षिणम्
तदन्ते पारणं कुर्यादिष्टबन्धुजनैः सह
व्रतस्यास्य प्रभावेण गौरीसहचरीभवेत्
दातव्यानि प्रयत्नेन ब्राह्मणेभ्यो यथाविधि
भूयसीं च ततो दद्याद्विप्रेभ्यो देवितुष्टये
सा तु देवीप्रसादेन सौभाग्यं लभते ध्रुवम्
हस्तगौरीव्रतं नाम तदुद्दिष्टं हि शौरिणा
लक्षेश्वरी चैव तथा तद्विधानमुदीर्यते
उपवासेन कर्तव्यं वर्षे वर्षे तु नारद
लक्षमेकं विशोध्याथ क्षिपेत्पयसि संसृते
प्रकरे गन्धपुष्पाणां पुष्पमालाविभूषिताम्
गन्धैः पुष्पैस्तथा धूपैर्दीपैर्नैवेद्यविस्तरैः
ततो विसर्जयद्देवीं जलमध्ये ऽथ दक्षिणाम्
इति ते कथितं विप्र कोटिलक्षेश्वरीव्रतम्
इषशुक्लतृतीयायां बृबद्गौरीव्रतं चरेत्
आचार्यं पूजयेदन्ते विप्रानन्यान्धनादिभिः
कञ्चुकैश्चैव ताटङ्कैः कण्ठसूत्रैर्हरिप्रियाः