धनधान्यसमायुक्तो जीवेद्विर्षशतं ध्रुवम्
प्रोक्तं तदेव कृष्णासु कर्त्तव्यं विधिकोविदैः
पूज्यते हि द्वितीयासु ब्रह्मचर्य्यादि पूर्ववत्
यानि सम्यग्विधायाशु नारी सौभाग्यमाप्नुयात्
सौवर्णा राजतीं वापि ताम्नीं वा मृण्ययीं द्विज
दूर्वाकाण्डैश्च विधिवत्सोपवासा तु कन्यका
द्विजभार्या भर्तृमतीः कन्यकां वा सुलक्षणाः
रात्रौ जागरणं कुर्याद्व्रतसंपूर्तिकाम्यया
धातुजां मृन्मयीं वा तु निक्षिपेच्च जलाशये
धेनुद्वादशसंकल्पं दद्यादुत्सर्गसिद्धये
स्त्रीणां यथा तथा नान्या विद्यते भुवनत्रये
लभते सर्वमेवेष्टं गौरीमभ्यर्च्य भक्तितः
तिथिस्त्रोतायुगाद्या सा कृतस्याक्षयकारिणी
शुक्ले पूर्वाह्निके ग्राह्ये कृष्णे चैव तपस्तथ
तत्र राधतृतीयायां श्रीसमेतं जगद्गुरुम्
यद्वा गङ्गांभसि स्नातो मुच्यते सर्वकिल्बिषैः
सक्तून्संभोजयेद्विप्रान्स्वयमभ्यवहरेच्च तान्
विष्णुलोकमवाप्नोति सर्वदेवनमस्कृतः
तस्यां सभार्यं विधिवत्पूजयेद्वाह्मणोत्तमम्
रंभाव्रतमिदं विप्र विधिवत्समुपाश्रितम्
अथाषाढतृतीयायां शुक्लायां शुक्लवाससा
भोजनैः सुरभीदानैर्वस्त्रैश्चापि विभूषणैः
समुपास्य व्रतं चैतद्धनधान्यसमन्विता
नभः शुक्लतृतीयायां स्वर्णगौरीव्रतं चरेत्
पुत्रान्देहि धनं देहि सौभाग्यं देहि सुव्रते
एवं संप्रार्थ्य देवेशीं भवानीं भवसंयुताम्
एवं षोडशवर्षाणि कृत्वा नारी व्रतं शुभम्
मण्डपे मण्डले शुद्धे गणेशादिसुरार्चनम्
सौवर्णीं प्रतिमां तत्र भवान्याः प्रतिपूजयेत्
वेणुपात्रैः षोडशभिः पक्वान्नपरिपूरितैः