वैडूर्यदो रुद्रलोकं पुष्परागप्रदस्तथा
अश्वसांनिध्यं चिरं व्रजति भूमिप
प्रयाति यानदानेन स्वर्गं स्वर्यानमास्थितः
गवां तृणप्रदानेन रुद्रलोकमवान्पुयात्
स्वश्रमाचारनिरताः सर्वभूतहितेरताः
परोपदेश निरता वीतरागा विमत्साराः
सत्सङ्गाह्लादनिरताः सत्कर्मसु सदोद्यताः
नित्यं हितकरा ये तु ब्राह्मणेषु च गोषु च
जितेन्द्रिया जिताहारा गोषु क्षान्ताः सुशीलिनः
अग्निशुश्रूषवश्चैव गुरुशुश्रूषकास्तथा
सदा देवार्चनरता हरिनमपरायणाः
अनाथं विप्रकुणपं ये दहेयुर्नृपोत्तम
पत्रैः पुर्ष्पेः फलैर्वापि जलैर्वा मनुजेश्वर
अप्सरोगणगन्धर्वैः स्तूयमानो विमानगः
चुलुकोदकमात्रेण लिङ्गं संस्नाप्य भूमिप
पूजया रहितं लिङ्गं कुसुमैर्योर्ऽचयेत्सुधीः
भक्ष्यैर्भोज्यैः फलैर्वापि शून्यं लिङ्गं प्रपूज्य च
पूजया रहितं विष्णुं योर्ऽचयेदकर्वंशज
देवतायतने यस्तु कुर्यात्संमार्जनं सुधीः
शीर्णं स्फटिकलिङ्गन्तु यः संदध्यान्नृपोत्तम
यस्तु देवालये राजन्नपि गोचर्ममात्रकम्
गन्धोदकेन यः सिञ्चेद्देवतायतने भुवम्
मृदा धातुविकारैर्वा यो लिम्पेद्देवतागृहम्
शिलाचूर्णेन यो मर्त्यो देवागारं तु लोपयेत्
यः कुर्याद्दीपरचनां देवतायतने नृप
अखण्डदीपं यः कुर्याद्विष्णोर्वा शङ्करस्य च
अर्चितं शङ्करं दृष्ट्वा विष्णुं वापि नमेत्तु यः
देव्याः प्रदक्षिणामेकां सत्प सूर्यस्य भूमिप
कृत्वा तत्तद्गृहं प्राप्य मोदते युगलक्षकम्
प्रदक्षिणां चररेत्तस्य ह्यश्वमेधः पदे पदे