हविष्यान्नेन गन्धाद्यैः स्तोष्य सर्वक्रतूद्भवम्
अस्मिन्नेव दिने विप्र बालेन्दुमुदितं परे
अथ वास्मिन्दिने भक्त्या दस्रावभ्यर्च्य यत्नतः
पूर्णयात्राव्रते ह्यस्मिन्दध्ना वापि घृतेन च
सुरूपरूपो ऽरिगणप्रतापी धर्माभिरामो नृपवर्गमुख्यः
समर्च्य सप्तधान्यान्याढ्यकुंभोपरि विधानतः
ज्येष्ठशुक्लद्वितीयायां भास्करं भुवनाधिपम्
भोजयित्वा द्विजान् भक्त्या भास्करं लोकमाप्नुयात्
तस्यां रथं समारोप्य रामं सह सुभद्रया
जलाशयान्तिकं गत्वा कारयेच्च महोत्सवम्
ब्राह्मणान्भोजयेच्चैव व्रतस्यास्य प्रपूर्तये
स्वपितीति तिथिः पुण्या ह्यशोकशयनाह्वया
इममुच्चारयेन्मन्त्रं प्रणम्य जगतां पतिम्
गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामद
भाद्रशुक्लद्वितीयायां शक्ररूपं जगद्विधिम्
आश्विने मासि वै पुण्या द्वितीया शुक्लपक्षगा
ऊर्ज्जशुक्लद्वितीयायां यमो यमुनया पुरा
पुष्टिप्रवर्द्धनं चात्र भगिन्या भोजनं गृहे
वस्त्रालङ्कारपूर्वं तु तस्मै देयमतः परम्
तस्यां स्वसुः करतलादिह यो भुनक्ति प्राप्नोति रत्नधनधान्यमनुत्तमं सः
आरोग्यं लभते चापि पुत्रपौत्रसमन्वयः
सर्वकामप्रदं नॄणामास्ते बालेन्दुदर्शनम्
पूजयेत्साज्यसुमनेधर्मकामार्थसिद्धये
समभ्यर्च्य यथान्यायं पूजयेद्रक्तपुष्पकैः
ततः पूर्णं ताम्रपात्रं गाघृमैर्वापितण्डुलैः
एवं कृते व्रते विप्र साक्षात्सूर्य इवोदितः
इह कामान्वराम्भुक्त्वा यात्यन्ते ब्रह्मणः पदम्
अथ फआल्गुनशुक्लाया द्वितीयायां द्विजोत्तमः
पुष्पैर्वितानकं कृत्वा पुष्पालङ्करणैः शुभैः
प्रसाद्य प्रणमेच्चैव साष्टाङ्गं पतितो भुवि