सोमवारं समारभ्य सार्धमासत्रयं द्विज
पूर्णायां शिवमभ्यर्च्य सुवण वंशसंयुतम्
दद्याद्विप्राय संकल्प्य धनवृद्ध्यै मुनीश्वर
व्रतं मौनाह्वयं केचित्प्राहुरत्र शिवोर्ऽच्यते
फलानि पिष्टपक्वानि दद्याद्विप्राय षोडश
सौवर्णं शिवमभ्यर्च्य कुम्भोपरि विधानवित्
इदं कृत्वा व्रतं विप्र देव देवस्य शूलिनः
आश्विने सितपक्षत्यां कत्वाशोकव्रतं नरः
अशोकपूजनं तत्र कार्यं नियमतत्परैः
समर्प्य गुरवे भक्त्या शिवलोके महीयते
पूर्वाह्ने पूजयेद्देवीं घटस्थापनपूर्वकम्
ततः प्रतिदिनं कुर्यादेकभुक्तमयाचितम्
मार्कंण्डेय पुराणोक्तं चरितत्रितयं द्विज
कुमारीपूजनं तत्र प्रशस्तं भोजनादिभिः
जायते भुवि दुर्गायाः प्रसादान्नात्र संशयः
विशेषादन्नकूटाख्यं विष्णुप्रीतिविवर्धनम्
कर्तव्यमन्नकूटं तु गोवर्द्धनसमर्चने
समर्च्य दक्षिणीकृत्य भुक्तिमुक्ती समाप्नुयात्
नक्तं विष्ण्वर्चनं होमैः सौवर्णीं हुतभुक्तनुम्
एवं कृत्वा धनैर्धान्यैः समृद्धो जायते भुवि
पौषशुक्लप्रतिपदि भानुमभ्यर्च्य भक्तितः
माघशुक्लाद्यदिवसे वह्निं साक्षान्महेश्वरम्
अथ फआल्गुनशुक्लादौ देवदेवं दिगंबरम्
कर्मणा लौकिकेनापि संतुष्टो हि महेश्वरः
वैशाखे तु सिताद्यायां विष्णुं विश्वविहारिणम्
एवं शुचिसिताद्यायां ब्रह्माणं जगतां गुरुम्
स्वसायुज्यं प्रदिशति सर्वसिद्धिमवाप्नुयात्
व्रतानि तुभ्यं प्रोक्तानि भुक्तिमुक्तिप्रदानि च
भोजने तु हविष्यान्नं सामान्यत उदाहृतम्
यानि कृत्वा नरो भक्त्या ब्रह्मलोके महीयते