मत्तः श्रुत्वा पुराणानि लोकेभ्यः प्रचकाशिरे
मयाचेदं पुराणं तु वसिष्टाय पुरोदितम्
व्यासो लब्ध्वा ततश्चैतत्प्रभञ्जनमुखोद्गतम्
य इदं कीर्तयेद्वत्स शृणोति च समाहितः
लिखित्वैतत्पुराणं तु स्वर्णसिंहासनस्थितम्
स यादि ब्रह्मणो लोकं नात्र कार्या विचारणा
पुराणानि तु संक्षेपाच्छ्रोतव्यानि च विस्तरात्
कथयेद्वा विधानेन नेह भूयः स जायते
तन्नित्यं शीलनीयं हि पुराणफलमिच्छता
देयं कदापि साधूनां द्वेषिणे न शठाय च
निर्मत्सराय शुचये देयं सद्वैष्णवाय च
मरूचये यथा प्रोक्तं ब्रह्मणा परमेष्ठिना
क्रमतो मह्यमाख्याहि यथा स्याद्वतनिश्चयः
यद्विधानं च पूजादेस्तत्सर्वं वद सांप्रतम्
तिथीशानुक्रमादेव सर्वसिद्धिविधायकम्
शुक्लपक्षे समग्रं वै तदा सूर्योदये सति
पूर्वविद्धैव कर्तव्या प्रतिपत्सर्वदा बुधैः
सर्वोत्पातप्रशमनी कलिदुष्कृतहारिणी
मङ्गल्या च पवित्रा च लोकद्वयमुखावहा
पाद्यार्ध्यपुष्पधूपैश्च वस्त्रालङ्कारभोजनैः
ततः क्रमेण देवेभ्यः पूजा कार्या पृथक्पृथक्
सवस्त्रं सहिरण्यं च ततो दद्याद्दिजातये
एवं पूजाविशेषेण व्रतं स्यात्सौरिसंज्ञकम्
विद्याव्रतमपि प्रोक्तमस्यामेव तिथौ मुने
अथ ज्येष्ठे सिते पक्षे पक्षत्यां दिवसोदये
रक्ततन्तुरीधानं गन्धधूपविलेपनैः
अभ्युक्ष्याक्षततोयेन मन्त्रेणेत्थं क्षमापयेत्
दंभोलिमृडदुर्गादिदेवानां सततं प्रिय
एवं भक्त्या समभ्यच्य दत्त्वा विप्राय दक्षिणाम्
नभः शुक्ले प्रतिपदि लक्ष्मीबुद्धिप्रदायकम्