शेषमन्वन्तराख्यानं पृथिवीदोहनं ततः
अथोपोद्घातपादे तु सप्तर्षिपरिकीर्तनम्
ततो जयाभिलाषश्च मरुदुत्पत्तिकीर्तनम्
पितृकल्पानुकथनं श्राद्धकल्पस्ततः परम्
मनुपुत्रान्वयश्चान्तो गान्धर्वस्य निरूपणम्
अमावसोरन्वयश्च रजेश्चरितमद्भुतम्
कार्तवीर्यस्य चरितं जामदग्न्यं ततः परम्
भार्गवस्यानुचरितं पितृकार्यवधाश्रयम्
देवासुराहवकथा कृष्णाविर्भाववर्णनम्
विष्णुमाहात्म्यकथनं बलिवंशनिरूपणम्
समुपोद्धातपादो ऽयं तृतीयो मध्यमे दले
वैवस्वतान्तराख्यानं विस्तरेण यथातथाम्
भविष्याणां मनूनां च चरितं हि ततः परम्
लोकाश्चतुर्द्दश ततः कथिताः प्राप्तलक्षणैः
मनोमयपुराख्यानं लयः प्राकृतिकस्ततः
त्रिविधा गुणसंबन्धाज्जन्तूनां कीर्तिता गतिः
अन्वयव्यतिरेकाभ्यां वर्णनं हि ततः परम्
चतुष्पादं पुराणं ते ब्रह्माण्डं समुदाहृतकम्
ब्रह्माण्डं यच्चतुर्लक्षं पुराणं येन वठ्यते
पासशर्येण मुनिना सर्वेषामपि मानद
मत्तः श्रुत्वा पुराणानि लोकेभ्यः प्रचकाशिरे
मयाचेदं पुराणं तु वसिष्टाय पुरोदितम्
व्यासो लब्ध्वा ततश्चैतत्प्रभञ्जनमुखोद्गतम्
य इदं कीर्तयेद्वत्स शृणोति च समाहितः
लिखित्वैतत्पुराणं तु स्वर्णसिंहासनस्थितम्
स यादि ब्रह्मणो लोकं नात्र कार्या विचारणा
पुराणानि तु संक्षेपाच्छ्रोतव्यानि च विस्तरात्
कथयेद्वा विधानेन नेह भूयः स जायते
तन्नित्यं शीलनीयं हि पुराणफलमिच्छता
देयं कदापि साधूनां द्वेषिणे न शठाय च