तर्पणं वैश्वदेवं च संध्या पार्वणकर्म च
प्रतिसंक्रम उक्ताः स्म युगधर्माः कृतेः फलम्
माहात्म्यं वैष्णवं चाथ नारसिंहस्तवोत्तमम्
वेदान्तसांख्यसिद्धान्तो ब्रह्मज्ञानं तथाल्मकम्
अथास्यैवोत्तरे खण्डे प्रेतकल्पः पुरोदितः
धर्मप्रकटनं पूर्वं योगिनां गतिकारणम्
यमलोकस्थमार्गस्य वर्णन च तः परम्
निष्कृतिर्यममार्गस्य धर्मराजस्य वैभवम्
प्रेतानां चरिताख्यानं कारणं प्रेततां प्रति
प्रेतत्वमोक्षणाख्यानं दानानि च विमुक्तये
शारीरकविनिर्देशो यमलोकस्य वर्णनम्
मृत्योः पूर्वक्रियाख्यानं पश्चात्कर्मनिरूपणम्
सूतकस्याथ संख्यांनं नारायणबलिक्रिया
अपमृत्युक्रियोक्तिश्च विपाकः कर्मणां नृणाम्
स्वर्गतौ विहिताख्यानं स्वर्गसौख्यनिरूपणम्
पञ्चोर्द्ध्वलोककथनं ब्रह्माण्डस्थितिकीर्तनम्
आत्यन्तिकं लयाख्यानं फलस्तुति निरूपणम्
कीर्तितं पापशमनं पठतां शृण्वतां नृणाम्
सौवर्णहंसयुग्माढ्यं विप्राय स दिवं व्रजेत्
यच्च द्वादशसाहस्रमादिकल्पकथायुतम्
चतुर्थ उपसंहारः पादाश्चत्वार एव हि
तृतीयो मध्यमो भागश्चतुर्थस्तूत्तरो मतः
हिरण्यगर्भोत्पत्तिश्च लोककल्पनमेव च
कल्पमन्वन्तराख्यानं लोकज्ञानं ततः परम्
महादेवविभूतिश्च ऋषिसर्गस्ततः परम्
प्रियव्रतान्वयोद्देशः पृथिव्यायामविस्तरः
जम्ब्वादिसप्तद्वीपाख्या ततो ऽधोलोकवर्णनम्
आदित्यव्यूहकथनं देवग्रहानुकीर्तनम्
अमावास्यानुकथनं युगतत्त्वनिरूपणम्
युगप्रजालक्षणं च ऋषिप्रवरवर्णनम्