भवनानि सुरेद्राणां त्रिपुरोद्योतनं तथा
चतुर्युगस्य संभूतिर्युगधर्मनिरूपणम्
तारकासुरमाहात्म्यं ब्रह्मदेवानुकीर्तनम्
अनङ्गदेहदाहश्च रतिशोकस्तथैव च
पार्वतीऋषिसंवादस्तथैरोद्वाहमङ्गलम्
तारकस्य वधो घोरो नरसिंहोपवर्णनम्
वाराणस्यास्तु माहात्म्यं नर्मदायास्तथैव च
तथोभयमुखीदानं दानं कृष्णाजिनस्य च
विविधोत्पातकथनं ग्रहणान्तस्तथैव च
वामनस्य तु माहात्म्यं वाराहस्य ततः परम्
देवासुरविमर्दश्च वास्तुविद्या तथैव च
प्रासादलक्षणं तद्वन्मण्डपान च लक्षणम्
कल्पानुकीर्तनं तद्वत्पुराणे ऽस्मिन्प्रकीर्तितम्
यः पठेच्छृणुयाद्वापि स याति भवनं हरेः
विप्रायाभ्यर्च्य विषुवे स याति परमं पदम्
गरुडायाब्रवीत्पृष्टो भगवान्गरुडासनः
पुराणोपक्रमप्रश्नः सर्गः संक्षेपतस्ततः
श्राद्धपूजा ततः पश्चान्नवव्यूहार्चनं द्विज
योगाध्यायस्ततो विष्णोर्नामसाहस्रकीर्तनम्
मालामन्त्रः शिवार्चाथ गणपूजा ततः परम्
विष्ण्वर्चा पञ्चतत्त्वार्चा चक्रार्चा देवपूजनम्
पूजा माहेश्वरी चातः पवित्रारोपणार्चनम्
प्रतिष्ठा सर्वदेवानां पृथक्पूजा विधानतः
द्वीपेशनरकाख्यानं सूर्यव्यूहश्च ज्योतिषम्
माहात्म्यमथ तीर्थानां गयामाहात्म्यमुत्तमम्
पित्राख्यानं वर्णधर्मा द्रव्यशुद्धिः समर्पणम्
जननाख्यं प्रेतशौचं नीतिशास्त्रं व्रतोक्तयः
रामायणं हरेर्वंशो भारताख्यानकं ततः
रोगघ्नं कवचं विष्णोर्गारुडं त्रैपुरो मनुः
ओषघीनाम कथनं ततो व्याकरणोहनम्