उत्तरे ऽस्या विभागे तु पुरा गीतैश्वरी ततः
नानाविधानां तीर्थानां माहात्म्यं च पृथक् ततः
अतः परं भागवतीसंहितार्थ निरूपणम्
पादऽस्याः प्रथमे प्रोक्ता ब्राह्मणानां व्यवस्थितिः
द्वितीये क्षत्त्रियाणां तु वृत्तिः सम्यक्प्रकीर्तिता
तृतीये वैश्यजातीनां वृत्तिरुक्ता चतुर्विधा
चतुर्थे ऽस्यास्तथा पादे शूद्रवृत्तिरुदाहृता
पञ्चमे ऽस्यास्ततः पादे वृत्तिः संकरजोदिता
इत्येषा पञ्चपद्युक्ता द्वितीया संहिता मुने
षोढा षट्कर्मसिर्द्धि बोधयन्ती च कामिनाम्
चतुष्पदी द्विजातीनां साक्षाद्ब्रह्मस्वरूरिणी
ताः क्रमात्षट्चतुर्द्वीषुसाहस्राः परिकीर्तिताः
पठतां शृण्वतां नॄणां सर्वोत्कृष्टगतिप्रदम्
ब्राह्मणाया यने दद्यात्स याति परमां गतिम्
यत्रोक्तं सप्तकल्पानां वृत्तं संक्षिप्य भूतले
उपक्रम्य तदुद्दिष्टं चतुर्द्दशसहस्रकम्
ब्रह्मदेवासुरोत्पत्तिर्मारुतोत्पत्तिरेव च
मन्वन्तरसमुद्देशो वैश्यराज्याभिवर्णनम्
पितृवंशानुकथनं श्रद्धाकालस्तथैव च
कीर्तनं सोमवंशस्य ययातिचरितं तथा
भृगुशापस्तथा विष्णोर्दशधा जन्मने क्षितौ
क्रियायोगस्ततः पश्चात्पुराणपरिकीर्तनम्
कृष्णाष्टमीव्रतं तद्वद्रोहिणीचन्द्रसंज्ञितम्
सौभाग्यशयनं तद्वदगस्त्यव्रतमेव च
तथैवानं दकर्याश्च व्रतं सारस्वतं पुनः
भीमाख्या द्वादशी तद्वदनङ्गशयनं तथा
सप्तमीसप्तकं तद्वद्विशोकद्वादशीव्रतम्
ग्रहस्वरूपकथनं तथा शिवचतुर्दशी
संक्रान्तिस्नपनं तद्वद्विभूतिद्वादशीव्रतम्
प्रयागस्य तु माहात्म्यं द्वीपलोकानुवर्णनम्