एकतः क्रतवः सर्वे समग्रवरदक्षिणाः
संरक्षति महीपाल यो विप्रं भयविह्वलम्
वस्त्रदो रुद्रभवनं कन्यादो ब्रह्मणः पदम्
यस्तु कन्यामलङ्कृत्य ददात्यध्यात्मवेदिने
कार्तिक्यां पौर्णमास्यां वा आषाढ्यां वापि भूपते
सत्पजन्मार्जितैः पापैर्विमुक्तो रुद्ररुपभाक्
शिवलिङ्गाङ्कितं कृत्वा महिषं यः समुत्सृजेत्
ताम्बूलदानं यः कुर्याच्छक्तितो नृपसत्तम
प्रयाति ब्रह्मसदनमिक्षुदाता नृपोत्तम
गुडेक्षुरसदश्चैव प्रयाति क्षीरसागरम्
विद्यादानेन सायुज्यं माधवस्य व्रजेन्नरः
नरकादुद्धरन्त्येव जपवाहनदोहनात्
विद्यादानेन सायुज्यं विष्णोर्याति नृपोत्तम
शालग्रामशिलादानं महादानं प्रकीर्तितम्
ब्रह्माण्ड कोटिदानेन यत्फलं लभते नरः
शालग्रामशिलादाने ततो ऽपि द्विगुणं फलम्
यो ददाति नरो दानं गृहतां प्रभो
रत्नान्वितसवर्णस्य प्रदानेन नृपोत्तम
नरो माणिक्यदानेन परं मोक्षमवान्पुयात्
स्वर्गं विद्रुमदानेन रुद्रलोकमवान्पुयात्
वैडूर्यदो रुद्रलोकं पुष्परागप्रदस्तथा
अश्वसांनिध्यं चिरं व्रजति भूमिप
प्रयाति यानदानेन स्वर्गं स्वर्यानमास्थितः
गवां तृणप्रदानेन रुद्रलोकमवान्पुयात्
स्वश्रमाचारनिरताः सर्वभूतहितेरताः
परोपदेश निरता वीतरागा विमत्साराः
सत्सङ्गाह्लादनिरताः सत्कर्मसु सदोद्यताः
नित्यं हितकरा ये तु ब्राह्मणेषु च गोषु च
जितेन्द्रिया जिताहारा गोषु क्षान्ताः सुशीलिनः
अग्निशुश्रूषवश्चैव गुरुशुश्रूषकास्तथा