भागद्वयसमायुक्तं वक्तृश्रोतृशुभावहम्
कपालमोचनाख्यानं दक्षयज्ञविहिंसनम्
प्रह्लादनारायणयोर्युद्धं देवासुराहवः
ततः काम्यव्रताख्यानं श्रीदुर्गाचरितं ततः
सत्यामाहात्म्यमतुलं पार्वतीजन्मकीर्तनम्
ततः कौशिक्युपाख्यानं कुमारचरितं ततः
जाबालिचरितं पश्चादरजायाः कथाद्भुता
मरुतां जन्मकथनं बलेश्च चरितं ततः
प्रह्लादतीर्थयात्रायां प्रोच्यन्ते ऽथ कथाः शुभाः
नक्षत्रपुरुषाख्यानं श्रीदामचरितं ततः
प्रह्लादबलिसंवादे सुतले हरिशंसनम्
शृण्णतो ऽस्योत्तरं भागं बहद्वामनसंज्ञकम्
चतस्रः संहिताश्चात्र पृथक् साहस्रसंख्यया
भागवत्यां जगन्मातुखतारकथाद्भुता
गाणेश्वर्यां गणेशस्य चरितं च महेशितुः
पुलस्त्येन समाख्यातं नारदाय महात्मने
व्यासात्तु लब्धवांश्चैतत् तच्छिष्यो रोमहर्षणः
एवं परंपराप्राप्तं पुराणं वामनं शुभम्
लिखित्वैतत्पुराणं तु यः शरद्विषुवेर्ऽपयेत्
स समुद्धृत्य नरकान्नयेत्स्वर्गं पितॄन्स्वकान् देहान्ते भुक्तभोगो ऽसौ याति विष्णोः परं पदम्
लक्ष्मीकल्पानुचरितं यत्र कूर्मवपुर्हरिः
इन्द्रद्युम्नप्रसंगेन प्राहर्षिभ्यो दयान्वितः
यत्र ब्राह्माः पुरा प्रोक्ता धर्मा नानाविधा मुने
तत्र पूर्वविभागे तु पुराणोपक्रमः पुरा
वर्णाश्रमाचारकथा जगदुत्पत्तिकीर्तनम्
ततः संक्षेपतः सर्गः शाङ्करं चरितं तथा
भृगुवंशसमाख्यानं ततः स्वायम्भुवस्य च
दक्षसृष्टिकथा पश्चात्कश्यपान्वयकीर्तनम्
मार्तण्डकृष्णसंवादो व्यासपाण्डवसंकथा
वाराणस्याश्च माहात्म्यं प्रयागस्य ततः परम्