गोमत्युत्पत्तिकथनं तस्यां स्नानादिजं फलम्
सनकादिह्रदाख्यानं नृगतीर्थकथा ततः
गोपीसरः समाख्यानं ब्रह्मतीर्थादिकीर्तनम्
शिवलिङ्गगदातीर्थकृष्णपूजादिकीर्तनम्
कुशदैत्यवधोञ्चारविशेषार्चनजं फलम्
कृष्णमन्दिरसंप्रेक्षा द्रारवत्यभिषेचनम्
इत्येष सप्तमः प्रोक्तः खण्डः प्राभासिको द्विजाः
लिखित्वैतत्तु यो दद्याद्धेमशूलसमन्वितम्
माध्यां सत्कृत्य विप्राय स शैवे मोदते पदे
त्रिविक्रमचरित्राढ्यं दशसाहस्रसंख्यकम्
भागद्वयसमायुक्तं वक्तृश्रोतृशुभावहम्
कपालमोचनाख्यानं दक्षयज्ञविहिंसनम्
प्रह्लादनारायणयोर्युद्धं देवासुराहवः
ततः काम्यव्रताख्यानं श्रीदुर्गाचरितं ततः
सत्यामाहात्म्यमतुलं पार्वतीजन्मकीर्तनम्
ततः कौशिक्युपाख्यानं कुमारचरितं ततः
जाबालिचरितं पश्चादरजायाः कथाद्भुता
मरुतां जन्मकथनं बलेश्च चरितं ततः
प्रह्लादतीर्थयात्रायां प्रोच्यन्ते ऽथ कथाः शुभाः
नक्षत्रपुरुषाख्यानं श्रीदामचरितं ततः
प्रह्लादबलिसंवादे सुतले हरिशंसनम्
शृण्णतो ऽस्योत्तरं भागं बहद्वामनसंज्ञकम्
चतस्रः संहिताश्चात्र पृथक् साहस्रसंख्यया
भागवत्यां जगन्मातुखतारकथाद्भुता
गाणेश्वर्यां गणेशस्य चरितं च महेशितुः
पुलस्त्येन समाख्यातं नारदाय महात्मने
व्यासात्तु लब्धवांश्चैतत् तच्छिष्यो रोमहर्षणः
एवं परंपराप्राप्तं पुराणं वामनं शुभम्
लिखित्वैतत्पुराणं तु यः शरद्विषुवेर्ऽपयेत्
स समुद्धृत्य नरकान्नयेत्स्वर्गं पितॄन्स्वकान् देहान्ते भुक्तभोगो ऽसौ याति विष्णोः परं पदम्