कालमेघस्य रुक्मिण्या दुर्वासेश्वरभद्रयोः
जालेश्वरस्य हुङ्कारेश्वरचण्डीशयोः कथा
कपिलेशस्य च कथा जरद्गवशिवस्य च
नारदेशयन्त्रभूषादुर्गकूटगणेशजा
कीर्तनं कर्दमालस्य गुप्तसोमेश्वस्य च
मार्कण्डेश्वरकोटीशदामोदरगृहोत्कथा
मृगीकुण्डं च सर्वस्वं क्षेत्रे वस्त्रापथे स्मृतम्
ततोर्ऽबुदेश्वर कथा अचलेश्वरकीर्तनम्
भद्रकर्णस्य माहात्म्यं त्रिनेत्रस्य ततः परम्
कोटीश्वररूपतीर्थहृषीकेशकथारस्ततः
पङ्गुतीर्थयमतीर्थवाराहतीर्थवर्णनम्
कात्यायन्याश्च माहात्म्यं ततः पिण्डारकस्य च
कपिलाग्नितीर्थकथा तथा रक्तानुबन्धजा
चण्डीस्थाननागोद्भवशिवकुण्डमहेशजा
उद्दालकेशसिद्धेशगततीथकथा पृथक्
कुलसंतारमाहात्म्यं रामकोट्याह्वतीर्थयोः
त्रिपुष्कररुद्रह्रदगुहेश्वर कथा शुभा
महौजसः प्रभावश्च जंबूतीर्थस्य वर्णनम्
द्वारकायाश्च माहात्म्ये चन्द्रशर्मकथानकम्
महाद्वादशिकाख्यानं प्रह्लादर्षिसमागमः
गोमत्युत्पत्तिकथनं तस्यां स्नानादिजं फलम्
सनकादिह्रदाख्यानं नृगतीर्थकथा ततः
गोपीसरः समाख्यानं ब्रह्मतीर्थादिकीर्तनम्
शिवलिङ्गगदातीर्थकृष्णपूजादिकीर्तनम्
कुशदैत्यवधोञ्चारविशेषार्चनजं फलम्
कृष्णमन्दिरसंप्रेक्षा द्रारवत्यभिषेचनम्
इत्येष सप्तमः प्रोक्तः खण्डः प्राभासिको द्विजाः
लिखित्वैतत्तु यो दद्याद्धेमशूलसमन्वितम्
माध्यां सत्कृत्य विप्राय स शैवे मोदते पदे
त्रिविक्रमचरित्राढ्यं दशसाहस्रसंख्यकम्