जाबालिचरितं चैव मकरेशकथा ततः
पुष्यादित्यं रौहिताश्वं नागरोत्पत्तिकीर्त्तनम्
सारस्वतं पैप्पलादं कंसारीशं च पैण्डकम्
रैवतं भार्तयज्ञाख्यं मुख्यतीर्थनिरीक्षणम्
पौष्करं नैमिषं धार्ममरण्य त्रितयं स्मृतम्
बृन्दावनं खाण्डवाख्यमद्वैकाख्यं वनत्रयम्
असिशुक्लपितृसंज्ञं तीर्थत्रयमुदाहृतम्
नदीनां त्रितयं गङ्गा नर्मदा च सरस्वती
कूषिका शङ्खतीर्थं चामरकं बालमण्डनम्
सांबादित्यं श्राद्धकल्पं यौधिष्ठिरमथान्धकम्
मङ्कणेशं शिवरात्रिस्तुलापुरुषदानकम्
पापपिण्डं मासलैङ्गं युगमानादिकीर्तनम्
दानमाहात्म्यकथनं द्वादशादित्यकीर्तनम्
सोमेशो यत्र विश्वेशोर्ऽकस्थलं पुण्यदं महत्
अग्नितीर्थं कपद्दर्शिं केदारेशं गतिप्रदम्
बुधेज्यभृगुसौरागुशिरवीशा हरविग्रहाः
वरारोहा ह्यजा पाला मङ्गला ललितेश्वरी
गौरीशवरुणेशाख्यं दुर्वासेशं गणेश्वरम्
ततः प्रोक्तो ऽथ कोटीशबालब्रह्मादिसत्कथा
बलभद्रेश्वरस्याथ गङ्गाया गणपस्य च
शतमेधलक्षमेधकोटिमेधकथा तथा
नगरार्कस्य कृष्णस्य संकर्षणसमुद्रयोः
पिङ्गलासंगमेशस्य शङ्करार्कघटेशयोः
ससोपानस्य पर्णार्कन्यङ्कुमत्योः कथाद्भुता
कथा कनकनन्दायाः कुतीगङ्गेशयोस्तथा
मङ्कणेशत्रैपुरेशषण्डतीर्थकथास्तथा
भूद्धारशूलस्थलयोश्च्यवनार्केशयोस्तथा
ऋषितोया कथा पुण्या संगालेश्वरकीर्तनम्
तप्तकुण्डस्य माहात्म्यं मूलचण्डीशवर्णनम्
गोपालस्वामिव कुलस्वामिनोर्मरुतां कथा