सिद्धेश्वरं नागसरः सप्तार्षेयं ह्यगस्त्यकम्
शारमिष्ठं सोमनाथं च दौर्गमातर्जकेश्वरम्
रामह्रदं नागपुरं षआड्लिङ्गं चैव यज्ञभूः
रुद्रशीर्षं च यागेशं वालखिल्यं च गारुडम्
अंबाबद्धं पाण्डुकाख्यमाग्नेयं ब्रह्मकुण्डकम्
शानैश्चरं राजवापी रामेशो लक्ष्मणेश्वरः
अष्टषष्टिसमाख्यानं दमयन्त्यास्त्रिजातकम्
क्षेमङ्करी च केदारं शुक्लतीर्थमुखारकम्
अटेश्वरं याज्ञवल्क्य गौर्यं गाणेशमेव च
सौभाग्यान्धुश्च शुलेशं धर्मराजकथानकम्
जाबालिचरितं चैव मकरेशकथा ततः
पुष्यादित्यं रौहिताश्वं नागरोत्पत्तिकीर्त्तनम्
सारस्वतं पैप्पलादं कंसारीशं च पैण्डकम्
रैवतं भार्तयज्ञाख्यं मुख्यतीर्थनिरीक्षणम्
पौष्करं नैमिषं धार्ममरण्य त्रितयं स्मृतम्
बृन्दावनं खाण्डवाख्यमद्वैकाख्यं वनत्रयम्
असिशुक्लपितृसंज्ञं तीर्थत्रयमुदाहृतम्
नदीनां त्रितयं गङ्गा नर्मदा च सरस्वती
कूषिका शङ्खतीर्थं चामरकं बालमण्डनम्
सांबादित्यं श्राद्धकल्पं यौधिष्ठिरमथान्धकम्
मङ्कणेशं शिवरात्रिस्तुलापुरुषदानकम्
पापपिण्डं मासलैङ्गं युगमानादिकीर्तनम्
दानमाहात्म्यकथनं द्वादशादित्यकीर्तनम्
सोमेशो यत्र विश्वेशोर्ऽकस्थलं पुण्यदं महत्
अग्नितीर्थं कपद्दर्शिं केदारेशं गतिप्रदम्
बुधेज्यभृगुसौरागुशिरवीशा हरविग्रहाः
वरारोहा ह्यजा पाला मङ्गला ललितेश्वरी
गौरीशवरुणेशाख्यं दुर्वासेशं गणेश्वरम्
ततः प्रोक्तो ऽथ कोटीशबालब्रह्मादिसत्कथा
बलभद्रेश्वरस्याथ गङ्गाया गणपस्य च