कोटितीर्थमयोन्यख्यमङ्गाराख्यं त्रिलोचनम्
नार्मदं चार्कमाग्नेयं भार्गवेश्वरमुत्तमम्
रामेशमथ सिद्धेशमाहल्यं कङ्कटेश्वरम्
योजनेशं वराहेशं द्वादशीशिवतीर्थकम्
कुण्डेशं श्वेतवाराहं गर्भावेशं रवीश्वरम्
नागशावं च सिद्धेशं मार्कण्डाङ्क्रूरतीर्थके
कपिलेशं पिङ्गलेशं भूतेशं गाङ्गगौतमे
कलकलेशं जालेशं शालग्रामं वराहकम्
मूल्यस्थानं च शूलेशमुग्राख्यं चित्रदैवकम्
ऋणमोक्षं भारभूति पुङ्खां मुडिं च डिण्डिमम्
कोटितीर्थं लोटणेषं फलस्तुतिरतः परम्
धुन्धुमारसमाख्यानं वधोपायस्ततो ऽस्य वै
महिमास्य ततश्चडीशप्रभावो रतीश्वरः
मुखारं च्यवनान्धास्यं ब्रह्मणश्च सरस्ततः
रुद्रावर्तं च मर्कण्डं तीर्थं पापप्रणाशनम्
जिह्वोदतीर्थंसंभूतिः शिवोद्भन्दं फलस्तुतिः
अतः परं नागराख्यः खण्डः षष्ठो ऽभिधीयते
विश्वामित्रस्य माहात्म्यं त्रिशङ्कुस्वर्गतिस्तथा
नागबिलं शङ्खतीर्थमचलेश्वरवर्णनम्
गयशीर्षं बालशाख्यं वालमण्डं मृगाह्वयम्
सिद्धेश्वरं नागसरः सप्तार्षेयं ह्यगस्त्यकम्
शारमिष्ठं सोमनाथं च दौर्गमातर्जकेश्वरम्
रामह्रदं नागपुरं षआड्लिङ्गं चैव यज्ञभूः
रुद्रशीर्षं च यागेशं वालखिल्यं च गारुडम्
अंबाबद्धं पाण्डुकाख्यमाग्नेयं ब्रह्मकुण्डकम्
शानैश्चरं राजवापी रामेशो लक्ष्मणेश्वरः
अष्टषष्टिसमाख्यानं दमयन्त्यास्त्रिजातकम्
क्षेमङ्करी च केदारं शुक्लतीर्थमुखारकम्
अटेश्वरं याज्ञवल्क्य गौर्यं गाणेशमेव च
सौभाग्यान्धुश्च शुलेशं धर्मराजकथानकम्